________________
भाष्यगाथाः ५१२९-३८] चतुर्थ उद्देशः ।
१३६७ परगणेऽनवस्थाप्यं वहमानः 'सः' उपाध्यायादिः शैक्षादीनपि सर्वान् साधून वन्दते । तस्य च गच्छेन सार्धमेकत्रोपाश्रये एकस्मिन् पार्धे शेषसाधुजनापरिभोग्ये प्रदेशे संवासः कर्तुं कल्पते । शेषाणि तु पदानि न कल्पन्ते ।। ५१३६ ॥ कानि पुनस्तानि ! इत्याह
आलावण पडिपुच्छण, परियझुट्ठाण वंदणग मत्ते । [जी.भा.२४४०]
पडिलेहण संघाडग, भत्तदाण संभुंजणा चेव ।। ५१३७॥ आलपनं स साधुभिः सह न करोति तेऽपि' तं नाऽऽलपन्ति । सूत्रार्थयोः शरीरोदन्तस्य वा प्रतिप्रच्छनं स तेषां न करोति तेऽपि तस्य न कुर्वन्ति । एवं परिवर्तनम्' एकतो गुणनम् 'उत्थानम्' अभ्युत्थानं ते अपि न कुर्वन्ति । वन्दनकं तु सर्वेषामपि स करोति तस्य पुनः साधवो न कुर्वन्ति । “मत्ते" ति खेलमात्रादिप्रत्यर्पणं तस्य न क्रियते सोऽपि. तेषां न करोति । उपकरणं परस्परं न प्रत्युपेक्षन्ते । सङ्घाटकेन परस्परं न भवन्ति । भक्तदानमन्योऽन्यं 10 न कुर्वन्ति । एकत्र मण्डल्यां न सम्भुञ्जते । यच्चाऽन्यत् किञ्चित् करणीयं तत् तेन सार्ध न कुर्वन्ति ॥ ५१३७ ॥ "संघो न लभइ कजं०" इत्यादिगाथाः (५०५३-५७) पाराश्चिकवद् द्रष्टव्याः ।।
॥ अनवस्थाप्यप्रकृतं समाप्तम् ॥
18
20
प्र वा ज ना दि प्रकृतम् सूत्रम्
तओ नो कप्पंति पव्वावित्तए, तं जहा-पंडए
वाईए कीवे ४॥ अस्य सम्बन्धमाह
न ठविजई वएसुं, सजं एएण होति अणवट्ठो।
दुविहम्मि वि न ठविजइ, लिंगे अयमन जोगो उ ॥ ५१३८ ॥ येन तदोषोपरतोऽपि 'सद्यः' तत्क्षणादेवानाचरिततपोविशेषो भावलिङ्गरूपेषु महाव्रतेषु न स्थाप्यते एतेन कारणेनानवस्थाप्य इत्युच्यते, स चानन्तरसूत्रे भणितः । अयं पुनः 'अन्यः' पण्डकादिििवधेऽपि द्रव्य-भावलिङ्गे यो न स्थाप्यते स प्रतिपाद्यते । एष 'योगः' सम्बन्धः॥५१३८॥
अनेन सम्बन्धेनायातस्यास्य व्याख्या-त्रयो नो कल्पन्ते प्रव्राजयितुम् । तद्यथा-25 'पण्डकः' नपुंसकः । 'वातिको नाम' यदा स्वनिमित्ततोऽन्यथा वा मेहनं काषायितं भवति तदा न शक्नोति वेदं धारयितुं यावन्न प्रतिसेवा कृता । 'क्लीबः' असमर्थः, स च दृष्टिक्लीबादिलक्षणः । एष सूत्रार्थः ॥ अथ भाष्यविस्तरः
१°पि तथैव तेन सह नालपन्ति । तथा सूत्रा कां० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org