________________
१३७०
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [प्रव्राज प्रकृते सूत्रम् ४ योरपि वेदत्रयोदयो मन्तव्यः ॥ ५१४७ ॥ आह यद्येवं ततो यदुच्यते 'स्त्री-पुरुष-नपुंसकवेदा यथाक्रमं फुम्फका-दवामि-महानगरदाहसमानाः' तदेतद् व्याहन्यते ? अत्रोच्यते
उस्सग्गलक्खणं खलु, फुफग तह वणदवे णगरदाहे ।
अववादतो उ भइओ, एक्केको दोसु ठाणेसु ॥ ५१४८ ॥ । इह विवक्षितस्य वस्तुनः कारणनिरपेक्षं सामान्यखरूपमुत्सर्ग उच्यते, ततस्त्रयाणामपि वेदानामिदमुत्सर्गलक्षणमेव मन्तव्यम् । यथा-स्त्रीवेदः फुम्फकाग्निसमानः, पुरुषवेदो वनदवामिसमानः, नपुंसकवेदो महानगरदाहसमान इति । अपवादतस्तु त्रिविधोऽपि वेदः 'भक्तः' विकल्पितः । कथम् ! इत्याह-एकैको वेदः स्वस्थानं मुक्त्वा इतरयोरपि द्वयोः स्थानयोर्व
तते । यथा-स्त्री स्त्रीवेदसमाना वा पुरुषवेदसमाना वा नपुंसकवेदसमाना वा भवेत् , एवं 10 पुरुष-नपुंसकयोरपि वक्तव्यम् ॥ ५१४८ ॥ अथ प्रकारान्तरेण पण्डकलक्षणमाह
दुविहो उ पंडओ खलु, दूसी-उवधायपंडओ चेव ।।
उवधाए वि य दुविहो, वेए य तहेव उवकरणे ॥ ५१४९ ॥ द्विविधः खलु पण्डकः, तद्यथा-दूषितपण्डक उपधातपण्डकश्च । दूषितपण्डको द्विविधःआसिक्त उपसिक्तश्च । एतच्च भेदद्वयमाद् व्याख्यातम् । » उपघातपण्डकोऽपि द्विविधः16 वेदोपघाते उपकरणोपघाते च ॥ ५१४९ ॥ तत्र दूषितपण्डकं तावद् व्याख्यानयति
दूसियवेओ दूसिय, दोसु व वेएसु सज्जए दूसी।
दुसेति सेसए वा, दोहि व सेविजए दूसी ॥ ५१५०॥ दूषितो वेदो यस्य स दूषितवेदः, एष दूषित उच्यते । 'द्वयोर्वा' नपुंसक-पुरुषवेदयोः अथवा नपुंसक-स्त्रीवेदयोर्यः 'सजति' प्रसङ्गं करोति स प्राकृतशैल्या दूसी भण्यते । यो वा 'शेषौ' 20 स्त्री-पुरुषवेदौ 'दूषयति' निन्दति स दूषी । 'द्वाभ्यां वा' आस्यक-पोसकाभ्यां यः सेव्यते सेवते वा स दूषी ॥ ५१५० ॥ अस्यैव भेदानाह
आसित्तो ऊसित्तो, दुविहो दूसी उ होइ नायव्यो ।
आसित्तो सावच्चो, अणवच्चो होइ ऊसित्तो ॥ ५१५१ ॥ स दूषी द्विविधो ज्ञातव्यो भवति-आसिक्त उपसिक्तश्च । आसिक्तो नाम 'सापत्यः' 25 यस्यापत्यमुत्पद्यते, सबीज इति भावः । यस्तु 'निरपत्यः' अपत्योत्पादनसामर्थ्य विकलः, निर्बीज इत्यर्थः, स उपसिक्त उच्यते ॥ ५१५१ ॥ व्याख्यातो दूषिपण्डकः, अथोपघातपण्डकमाह
पुचि दुचिण्णाणं, कम्माणं असुभफलविवागेणं ।
तो उवहम्मइ वेओ, जीवाणं पावकम्माणं ॥ ५१५२ ।। 30 पूर्व 'दुश्चीर्णानों' दुराचारसमाचरणेनार्जितानां कर्मणामशुभफलः 'विपाकः' उदयो यदा __ भवति ततो जीवानां पापकर्मणां वेद उपहन्यते ॥ ५१५२ ॥ तत्र चायं दृष्टान्तः
जह हेमो उ कुमारो, इंदमहे भूणियानिमित्तेणं । १ एतदन्तर्गतः पाठः का ० एव वर्तते ॥ २ °ना' परस्त्रीगमनादिदुरा' का ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org