________________
भाष्यगाथाः ५१२० - २८ ]
चतुर्थ उद्देशः
भणति - विस्मृतं मम साम्प्रतं तद् निमित्तमिति ॥ ५१२३ ॥ 'अथ साधर्मिकादिस्तैन्येषु प्रायश्चित्तमुपदर्शयति
१३६५
साहम्मिय ऽन्नधम्मियतेण्णेसु उ तत्थ होतिमा भयणा । [जी. भा. २४११-२४१२] लहुगो लहुगा गुरुगा, अणवटुप्पो व आएसा ॥ ५१२४ ।। सीधर्मिकस्तैन्या-ऽन्यधार्मिकस्तैन्ययोस्तत्र तावदियं 'भजना' प्रायश्चित्तरचना भवति – आहारं 5 स्तेनयतो लघुमासः, उपधिं स्तेनयतश्चतुर्लघु, सचितं स्तेनयतश्चतुर्गुरवः । आदेशेन वाऽनवस्थाप्यम् ॥ ५१२४ ॥
अहवा अणुवज्झाओ, एएसु पएसु पावती तिविहं । [ जी. भा. २४१३-२४१४] तेसुं चैव परसुं, गणि-आयरियाण नवमं तु ॥ ५१२५ ।।
अथवा 'अनुपाध्यायः' य उपाध्यायो न भवति किन्तु सामान्यभिक्षुः सः 'एतेषु पदेषु' 10 आहारोपधि-सचित्तस्तैन्यरूपेषु यथाक्रमं 'त्रिविधं' लघुमा स- चतुर्लघु- चतुर्गुरुलक्षणं प्रायश्चित्तं प्राप्नोति । 'एतेष्वेव च ' आहारादिषु पदेषु गणिनः - उपाध्यायस्याssचार्यस्य च ' नवमम्' अनवस्थाप्यं भवति ॥ ५१२५ ।। अत्र परः प्राह - ननु सूत्रे सामान्येनानवस्थाप्य एव भणितः न पुनर्लघु मासादिकं त्रिविधं प्रायश्चित्तम् तत् कथमिदमर्थेनाभिधीयते ! उच्यते — आर्हतानामेकान्तवादः क्वापि न भवति । तथा चाह
तुल्लम व अवराहे, तुल्लमतुलं व दिजए दोहं । [ जी. भा. २४१५ ] पारंचि के वि नवमं, गणिस्स गुरुणो उ तं चैव ॥ ५१२६ ॥
तुल्यः- सदृशोऽपराधः द्वाभ्यामपि - आचार्योपाध्यायाभ्यां सेवितस्तत्र द्वयोरपि तुल्यमतुल्यं वा प्रायश्चित्तं दीयते । तत्र तुल्यदानं प्रतीतमेव, अतुल्यदानं पुनरिदम् – 'पाराञ्चिकेऽपि ' पाराञ्चिकापत्ति योग्येऽप्यपराधपदे सेविते 'गणिनः ' उपाध्यायस्य 'नवमम्' अनवस्थाप्यमेव 20 दीयते न पाञ्चिकम्, 'गुरो:' आचार्यस्य पुनः 'तदेव' पाराञ्चिकं दीयते । ततो यद्यपि सूत्रे सामान्येनाऽनवस्थाप्यमुक्तं तथापि तत् पुरुषविशेषापेक्षं प्रतिपत्तव्यम्, यद्वाऽभीक्ष्णसेवानिष्पन्नम् ॥ ५१२६ ॥ तथा चाह
अहवा अभिक्खसेवी, अणुवरमं पावई गणी नवमं । [ जी. भा. २४१६ ] पावंति मूलमेव उ, अभिक्खपडिसेविणो सेसा ।। ५१२७ ॥
अथवा साधर्मिकस्तैन्यादेः 'अभीक्ष्णसेवी' पुनः पुनः प्रतिसेवां यः करोति स ततः स्थानाद् 'अनुपरमन्' अनिवर्त्तमानः 'गणी' उपाध्यायो नवमं प्राप्नोति । 'शेषास्तु' ये उपाध्याय त्वमाचार्यत्वं वा न प्राप्तास्तेऽभीक्ष्णप्रति से विनोऽपि मूलमेव प्राप्नुवन्ति नानवस्थाप्येम् ॥ ५१२७ ॥ अत्थादाणो ततिओ, अणवट्ठो खेत्तओ समक्खाओ । [ जी. भा. २४१७] गच्छे चैव क्संता, णिज्जू हिजंति सेसा उ ।। ५१२८ ॥
Jain Education International
15
25
30
१ 'तत्र' तयोः - अनन्तरोक्तयोः साधर्मिक स्तैन्या-ऽन्य धार्मिक स्तैन्ययोस्तावदियं कां• ॥ २°यम्, तथा भगवद्वचनमामाण्यात् ॥ ५१२७ ॥ अथ पूर्वोक्तमर्थमुपसंहरन् विशेषं चाभिधातुकाम इदमाह - अत्था कां० ॥
For Private & Personal Use Only
www.jainelibrary.org