________________
18.
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ भनव प्रकृते सूत्रम् ३ तं नैमित्तिकं तत्रस्थितं लोकः पूर्वाभ्यासाद् निमित्तं पृच्छेत् , सोऽपि ऋद्धिगौरवतः स्नेहाद्वा भयाद्वा 'किञ्चिद्' लाभा-ऽलाभादिकं तत्रस्थितो भाषेत । अपि च–स ज्ञानविषयं परीषहं तत्र न सहते, सोढुं न शक्नोतीत्यर्थः । यथा कच्छु:-पामा तद्वान् पुरुषः 'कण्डूं' खर्जितं विना स्थातुं न शक्नोति एवमेषोऽपि तत्र निमित्तकथनमन्तरेण न स्थातुं शक्त इति भावः ।। ५११९ ॥ B. अथ पूर्वोक्तमप्यर्थ विशेषज्ञापनार्थं भूयोऽप्याह- .
- तइयस्स दोन्नि मोत्तुं, दव्वे भावे य सेस भयणा उ ।
पडिसिद्ध लिंगकरणं, कारणे अण्णत्थ तत्थेव ॥ ५१२० ॥ इह "साधम्मियतेणियं करेमाणे" इत्यादिसूत्रक्रमप्रामाण्येन हत्थायालस्तृतीय उच्यते, स त्रिंधा-हस्तातालो हस्तालम्बोऽर्थादानं चेति । तत्राऽऽद्ये द्वे पदे मुक्त्वा यत् शेषम्-अर्थादानाख्यं 10 तृतीयं पदं तत्र द्रव्यतो भावतश्च लिङ्गप्रदाने भजना भवति । कथम् ! इत्याह-“पडिसिद्ध"
इत्यादि, उत्तरत्र “कारणे" इत्यभिधास्यमानत्वाद् इह निष्कारणमिति गम्यते, ततो निष्कारणे प्रतिषिद्धमर्थादानकारिणो 'लिङ्गकरणं' द्रव्यलिङ्गस्य भावलिङ्गस्य वा तत्र क्षेत्रे प्रदानम् । 'कारणे तु' भक्तप्रत्याख्यानप्रतिपत्तिलक्षणेऽन्यत्र वा तत्र वाऽनुज्ञातमेव ।। ५१२० ॥ एषा पुरातना ग्राथा, अत एनां विवरीषुराह___ हत्थातालो ततिओ, तस्स उ दो आइमे पदे मोत्तुं ।
अत्थायाणे लिंगं, न दिति तत्थेव विसयम्मि ॥ ५१२१ ॥ हस्तातालः सूत्रक्रमप्रामाण्येन तृतीयः, तस्य द्वे आदिमे हस्ताताल-हस्तालम्बलक्षणे पदे मुक्त्वा यद् अर्थादानाख्यं पदं तत्र वर्तमानस्य तत्रैव 'विषये' देशे लिङ्गं न ददति ।। ५१२१ ॥
स च अर्थादानकारी गृहिलिङ्गी वा स्यादवसन्नलिङ्गी वा । तत्रं20 गिहिलिंगस्स उ दोण्णि वि, ओसन्न न दिति भावलिंगं तु ।
दिजंति दो वि लिंगा, उवहिए उत्तिमट्ठस्स ॥ ५१२२ ॥ यो गृहिलिङ्गी प्रव्रज्यार्थमभ्युत्तिष्ठते तस्य 'द्वै अपि' द्रव्य-भावलिङ्गे तस्मिन् देशे न दीयेते । यः पुनरवसन्नस्तस्य द्रव्यलिङ्गं विद्यत एव परं भावलिङ्गं तस्य तत्रैव न ददति । यदा पुनरसावुत्तमार्थप्रतिपत्त्यर्थमुपतिष्ठते तदा तस्मिन्नपि देशे द्वयोरपि गृहस्था-ऽवसन्नयोझै अपि लिङ्गे दीयेते ॥ ५१२२ ॥ अथवेदं कारणम्
- ओमा-ऽसिवमाईहि व, तप्पिस्सति तेण तस्स तत्थेव ।
. न य असहाओ मुच्चइ, पुट्ठो य भणिज वीसरियं ॥ ५१२३ ॥ अवमा-ऽशिव-राजद्विष्टादिषु वा समुपस्थितेषु गच्छस्य 'प्रतितर्पिष्यति' उपग्रहं करिष्यति तेन कारणेन तत्रैव क्षेत्रे तस्य लिङ्गं प्रयच्छन्ति । तत्र चेयं यतना-"न य असहाओ" 30 इत्यादि, स तत्रारोपितमहाव्रतः सन् 'असहायः' एकाकी न मुच्यते, लोकेन च निमित्तं पृष्टो
१ भावः। अतोऽन्यदेशान्तरे नीत्वा स महाव्रतेषु स्थापनीय इति प्रक्रमः ॥ ५११९ ॥ अथानन्तरोक्कमप्यर्थे का०॥ २ एतदनन्तरं ग्रन्थानम्-१५०० कां० ॥ ३ °ण दिति तत्थे ताटी. भा.कां• तामा.॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org