________________
सनियुक्ति-लघुभाष्य-वृत्तिके वृहत्कल्पसूत्रे [ उपाश्रयप्रकृते सूत्रम् ६ 'ते' साधवः 'तत्र' उपाश्रये सन्निविष्टाः सन्तः स्वाध्यायं कुर्वन्ति । 'विधिपूर्व' यथारनाधिकं संस्तारकास्तैस्तत्र गृहीताः । ततश्च गीतार्थाः स्वपक्षयतनां कुर्वाणा जाग्रतः सन्तः 'वसन्ति' तिष्ठन्तीत्यर्थः ॥ ३४४९ ॥ कथम् ? इत्याह
पासे तणाण सोहण, अहिसकोसक अन्नहिं नयणं ।। 5 संवरणा लिंपणया, छुक्कारण वारणाऽऽगट्ठी ॥ ३४५० ॥ ___अग्नेः पार्थे यदि तृणानि भवन्ति ततस्तेषां शोधना कर्तव्या । श्वापदभयेऽनाक्रान्तिकस्तेनसम्भवे वा अग्नेरभिष्वष्कणं कुर्वन्ति । यदि तत्र आक्रान्तिकस्तेनानां सम्भवस्तदा तमग्निमवष्वकयन्ति, खप्तुकामा वा तमन्यत्र नयन्ति, बहिः सङ्कामयन्तीत्यर्थः । कृते कार्ये क्षारेण मल्लकेन वा तस्यामेः 'संवरणम्' आच्छादनं कर्त्तव्यम् । ततो यथाऽऽयुष्कमनुपाल्य खयमेव 10 विध्यायति । प्रदीपनकभयात् तत्र स्तम्भस्य च्छगणादिना लेपनं कर्त्तव्यम् । श्वानो वा गौर्वा
यदि तत्र प्रविशति स्तेनो वा ढौकते तदा "छुकारण" ति छिछिक्कारः कर्त्तव्यः । अथ तथापि न तिष्ठन्ति ततो निवारणा तेषां कर्त्तव्या । सहसा च प्रदीपनके लग्ने कटादेराकर्षणं कर्त्तव्यम् । यद्वा तत् प्रदीपनकं धूल्यादिना विध्यापयितव्यम् ॥ ३४५० ॥ अथोपकरणप्रत्युपेक्षणादिषु द्वारेषु यतनामाह
कडओ व चिलिमिणी वा, असती सभए व बाहि जं अंतं ।
ठाणाऽसति य भयम्मि व, विज्झायऽगणिम्मि पेहिंति ॥ ३४५१ ॥ अग्नेरन्तरे-वंशमयः कटो वस्त्रमयी वा चिलिमिलिका दातव्या । ततः प्रत्युपेक्षणा-प्रमार्जनादीनि सर्वाण्यपि पदानि कुर्वन्ति । कटक-चिलिमिलिकयोरभावे प्रतिश्रयाद् बहिरुपकरणं
प्रत्युपेक्षणीयम् । अथ बहिः 'सभयं' स्तेनभययुक्तं ततो यदन्त्यं परिजीर्णमुपकरणं तद् बहिः 20 प्रत्युपेक्षन्ते, सारोपकरणं तु विध्याते ज्योतिषि प्रत्युपेक्षितव्यम् । अथ बहिः स्थानं नास्ति यद्वाऽन्त्योपकरणस्यापि तत्रापहरणभयं ततः सर्वमप्युपंधि विध्यातेऽमौ प्रत्युपेक्षन्ते ॥३४५१॥
निंता न पमअंती, मूगाऽऽवासं तु वंदणगहीणं ।
पोरिसि बाहि मणेण व, सेहाण य दिति अणुसहूिं ॥ ३४५२॥ निर्गच्छन्तः प्रविशन्तो वा तत्र भुवं न प्रमार्जयन्ति, वसतिमपि न प्रमार्जयन्ति, आवश्य25 कमपि 'भूकं' वाग्योगविरहितं वन्दनकहीनं च कुर्वन्ति, सूत्रार्थपौरुष्यौ बहिर्विदधति, बहिः स्थानाभावे मनसैव सूत्रमर्थ वाऽनुप्रेक्षन्ते, ये च शैक्षाः ज्योतिःप्रकाशे रागमुपगच्छन्ति तेषां गीतार्था अनुशिष्टिं प्रयच्छन्ति ॥ ३४५२ ॥ कथम् ? इत्याह
नाणुजोया साहू, दव्वुजोवम्मि मा हु सजित्था ।
जस्स वि न एइ निद्दा, स पाउय निमीलिओ गिम्हे ॥३४५३ ॥ 30 'ज्ञानोद्योताः' सकलजीवादिपदार्थसार्थप्रकाशकज्ञानलक्षणभावोद्योतकलिताः साधवो भवन्ति, अतः 'द्रव्योद्योते' कतिपयपदार्थप्रकाशके ज्योतिःप्रभृतिके 'मा सजत' मा रागमुपगच्छत । १ "पासे तणाण. गाहा पुरातना" इति विशेषचूर्णौ ॥ २'रणोगही ताभा०॥ ३ भा. कां. विनाऽन्यत्र-ति ततो वा दो ताटी० मो० ले.॥४°पकरणं विध्या कां•॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org