________________
भाष्यगाथाः ३४५०-५७] द्वितीय उद्देशः ।
९६५ यस्य वा साधोः सप्रकाशे निद्रा नागच्छति स कल्पेन प्रावृतः खपिति । अथ ग्रीष्मकाले प्रावृतस्य धर्मो भवति ततो निमीलितलोचनः खपिति ॥ ३४५३ ॥ अथ "मूकावश्यकं वन्दनकहीनम्" (गा० ३४५२ ) इति पदं व्याचष्टे
आवास बाहि असई, ठिय वंदण विगड जयण थुइहीणं ।
सुत्तत्थ वाहि अंतो, चिलि मिणि काऊण व झरंति ॥ ३४५४॥ 5 आवश्यकं बहिः कुर्वन्ति । अथ बहिः स्थानं नास्ति ततो यो यत्र स्थितः स तत्रैव स्थितो मनसैव करोति । द्वादशावर्त्तवन्दनकं न प्रयच्छन्ति । 'विकटनाम्' आलोचनां यतनया वर्षाकल्पप्रावृता निश्चेष्टा एव कुर्वन्ति । 'स्तुतिहीनं नाम' स्तुतिमङ्गलं मनसैव कुर्वन्ति । अथ "पोरिसि बाहि" (गा० ३४५२) ति पदं व्याख्यायते—सूत्रार्थपौरुष्यौ बहिः कुर्वन्ति । अथ बहिः स्थानं नास्ति ततः प्रतिश्रयस्याभ्यन्तरेऽपि चिलिमिलिकां कृत्वा 'झरन्ति' स्वाध्यायं 10 कुर्वन्ति । वा विकल्पोपदर्शने, चिलिमिलिकाया अभावे मनसैव सूत्रमर्थ वाऽनुप्रेक्षन्ते इत्यर्थः ॥ ३४५४ ॥
मूगा विसंति निति व, उम्मुगमाई कओ वि अछिवंता।
सेहा य जोइ दरे, जग्गंति य जा धरइ जोई ॥३४५५॥ 'मूकाः' तूष्णीकाः प्रविशन्ति निर्गच्छन्ति वा, नैषेधिकीमावश्यिकी चे मनसैव कुर्वन्ती-15 त्यर्थः । 'उल्मुकम्' अलातम् आदिशब्दादमिशकटिकां वा कचिदप्यस्पृशन्तः तथा निर्गच्छन्ति वा प्रविशन्ति वा यथाऽऽपतन-प्रपतने न भक्तः । ये च शैक्षा अगीतार्थाश्च निर्धर्माणस्ते ज्योतिषो दूरे स्थापयितव्याः । गीतार्थवृषभाश्च तावद् जाग्रति यावद् ‘ज्योतिः' अग्निधियते, न विध्यायतीति भावः, मा शैक्षादयः प्रतापयेयुरिति कृत्वा ॥ ३४५५॥ अद्धाणाई अइनिद्दपिल्लिओ गीऑसक्किउं सुवह ।
20 सावयभय उस्सके, तेणभए होइ भयणा उ॥ ३४५६ ॥ अध्वादिपरिश्रान्तोऽतिनिद्राप्रेरितो वा गीतार्थस्तमनिमपसर्प्य खपिति । सिंह-व्याघ्रादिश्वापदभये यतनया तान्युत्मकान्युत्सर्पयति । स्तेनभये तु भजना भवति-यद्याक्रान्तिकस्तेनास्ततः : 'मा ज्योतिः प्रज्वलदवलोक्यागमनं कार्युः' इति कृत्वा तमग्निमपसर्पयति, अथानाक्रान्तिकास्ततो ज्वलन्तममिं दृष्ट्वा 'जाग्रत्यमी' इति बुद्ध्या ते नाभिद्रवन्ति अतस्तेषु तममिमुत्स-25 र्पयतीति ॥ ३४५६ ॥
अद्धाणविवित्ता वा, परकड असती सयं तु जालेति ।
मूलाई व तवेठ, कयकजा छार अक्कमणं ॥ ३४५७ ॥ अध्वनि विविक्ताः-मुषिताः 'परकृतम्' अन्यप्रज्वालितममि सेवन्ते । अथ परकृतो वहिन प्राप्यते ततः 'खयम्' आत्मनैव ज्वालयन्ति, शीता स्तओन्धनं प्रक्षिपन्तीत्युक्तं भवति । शूलम् 30 आदिशब्दाद् विसूचिकां वा तापयितुं परकृताभावे स्वयं ज्वालयन्ति, 'कृतकार्याः' निष्ठित कायें .-- क्षारेणाक्रमणं कुर्वन्ति, मा प्रदीपनकं भविष्यतीति कृत्वा ॥ ३४५७ ।। १व सर तामा० ॥ २व न कुर्व मा०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org