________________
भाष्यगाथाः ३४४०-४९]... द्वितीय उद्देशः ।
९६३ पणितशाला भाण्डशाला कर्मशाला पचनशाला व्याधरणशाला इन्धनशाला चेति । अत्र निष्कारणे इन्धनशालायां तिष्ठतां चतुर्गुरुकाः । 'शेषासु' पणितशालाप्रभृतिषु चतुर्लघुकाः ॥ ३४४४ ॥ अथैतासामेव व्याख्यानमाह
कोलालियावणो खलु, पणिसाला भंडसाल जहिं भंडं। कुंभारकुडी कम्मे, पयणे वासासु आवाओ ॥ ३४४५॥ तोसलिए वग्घरणा, अग्गीकुंडं तहिं जलति निच्चं ।
तत्थ सयंवरहेडं, चेडा चेडी य छुब्भंति ॥ ३४४६ ॥ कौलालिकाः-कुलालक्रय-विक्रयिणस्तेषामापणः पणितशाला मन्तव्या । किमुक्तं भवति :यत्र कुम्भकारा भाजनानि विक्रीणते, वणिजो वा कुम्भकारहस्ताद भाजनानि क्रीत्वा यत्रापणे विक्रीणन्ति सा पणितशाला । भाण्डशाला यत्र घट-करकादिभाण्डजातं सङ्गोपितमास्ते । कर्मशाला 10 कुम्भकारकुटी, यत्र कुम्भकारो घटादिभाजनानि करोतीत्यर्थः। पचनशाला नाम यत्रापाकस्थाने वर्षासु भाजनानि पच्यन्ते । इन्धनशाला तु यत्र तृण-करीष-कचवरास्तिष्ठन्ति ॥ ३४४५ ॥ ___ व्याधरणशाला नाम तोसलिविषये ग्राममध्ये शाला क्रियते, तत्राग्निकुण्डं खयंवरहेतोर्नित्यमेव प्रज्वलति, तत्र च बहवश्चेटकाः एका च खयंवरा चेटिका 'प्रक्षिप्यन्ते' प्रवेश्यन्ते इत्यर्थः । यस्तेषां मध्ये तस्यै प्रतिभाति तमसौ वृणीते, एषा व्याघरणशाला । एतासु तिष्ठतां चत्वारो 15 लघुकाः ॥ ३४४६ ॥ नवरम् -
इंधणसाला गुरुगा, आदित्ते तत्थ नासिउं दुक्खं ।
दुविह विराहण झुसिरे, सेसा अगणी य सागरिए ॥ ३४४७॥ इन्धनशालायां तिष्ठतां चत्वारो गुरुकाः । कुतः? इत्याह-तत्र तृण-करीषादौ 'आदीप्ते' प्रदीप्ते सति नष्टुं 'दुःखं' दुष्करम् । शुषिरं च तत् तृणादि भवति, ततस्तत्र 'द्विविधा विराधना' 20 संयमा-ऽऽत्मविषया । 'शेषासु' पणितशालादिषु भाजनविक्रयिक-क्रयिकादिना जनेन सागारिकम् । पचनशालायां पुनरनिदोषो भवति ॥३४४७॥ एतासु द्वितीयपदे तिष्ठतां विधिमाह
पढमं तु भंडसाला, तहि सागरि नत्थि उभयकोलं पि।
कम्माऽऽपणि निसि नत्थी, सेस कमेणेधणी जाव ॥ ३४४८॥ शुद्धोपाश्रयालामे प्रथमं भाण्डशालायां तिष्ठन्ति, यतस्तत्र 'उभयकालेऽपि' दिवा रात्रौ च 25 सागारिकं नास्ति । तदभावे कर्मशालायाम् । तदप्राप्तौ आपणशालायामपि, यतस्तत्र 'निशि' रात्रौ सागारिकं नास्ति । तदभावे 'शेषासु' पचनशालादिषु क्रमेण स्थातव्यं यावदिन्धनशाला । तद्यथा-प्रथमं पचनशालायाम् , ततो व्याधरणशालायाम् , तत इन्धनशालायामपि ॥३४४८।। तत्र स्थितानां यतनामाहते तत्थ सन्निविट्ठा, गहिया संथारगा विहीपुव्वं ।
30 जागरमाण वसंती, सपक्खजयणाएँ गीतत्था ॥ ३४४९ ॥ १°का:-कुम्भकारास्तेषा भा० ॥ २ °कालम्मि तामा० ॥ ३ कम्म पणिय निसि तामा० । एतदनुसारेण भा. टीका । दृश्यतां टिप्पणी ४ ॥ ४°प्राप्तौ पणितशा भा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org