SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ ९६२ सनिर्युक्ति-लघुभाप्य वृत्ति के बृहत्कल्पसूत्रे [ उपाश्रयप्रकृते सूत्रम् ६ 'अवष्वष्कणं' शीघ्र विध्यापनार्थं ज्वलतामुल्मुकानामपकर्षणम् । 'अंतिष्वष्कणं तु' तेषामेव प्रज्वालनार्थमुदीरणम् । 'अन्यत्र नयनं नाम' शयनस्थानभावाद मेः स्थानान्तरसङ्क्रमणम् । तथा प्रदीपनकभयादमिं क्षारेण धूल्या वा विध्याप्य त्वग्वर्त्तनम् । एतेषु प्रत्येकं चतुर्लघुकम् ॥ ३४३९ ॥ अथवा प्रतापयतः प्रमादतः प्रदीपनकं भवेत् तत्रेदं प्रायश्चित्तम्गाउअ दुगुणाद्गुणं, बत्तीसं जोयणाइँ चरिमपदं । चत्तारि छ च लहु गुरु, छेओ मूलं तह दुगं च ॥ ३४४० ॥ व्यूतादारभ्य द्विगुणाद्विगुणवृच्या द्वात्रिंशद्योजनलक्षणं चरमपदं यावदिदं प्रायश्चित्तम्यद्येकं गव्यूतं दह्यते ततश्चत्वारो लघुमासाः, अर्द्धयोजनं दझते चत्वारो गुरुमासाः, योजनं दह्यते षण्मासा लघवः, योजनद्वये षण्मासा गुरवः, चतुर्षु योजनेषु च्छेदः, अष्टसु मूलम्, 10 षोडशसु अनवस्थाप्यम्, द्वात्रिंशद्योजनेषु दग्धेषु पाराञ्चिकम् || ३४४० ॥ तथागोणे य सामाई, वारणें लहुगा य जं च अहिगरणं । लहुगा अवारणमि, खंभ-तणाई पलीवेजा ॥ ३४४१ ॥ तत्र प्रविशतो गो-श्वानादीन् यदि वारयति तदा चतुर्लघुकाः, यच्च ते वारिताः सन्तो हरितकायादि विराधना रूपमधिकरणं कुर्वन्ति तन्निष्पन्नम् । अथ न वारयति ततोऽपि चतुर्ल15 घवः । प्रविष्टाश्च प्रज्वलदिन्धन चालनेन स्तम्भ-तृणादीनि प्रदीपयेयुः तत्रापि गव्यूतादारभ्य द्विगुणद्विगुणवृद्ध्या द्वात्रिंशद्योजनेषु पाराश्चिकम् । यत एते दोषा अतो न ज्योतिःशालायां स्थातव्यम् । भवेत् कारणं येन तत्रापि तिष्ठेयुः ॥ ३४४१ ॥ किं पुनस्तत् ? इति चेद् उच्यते - अद्धानियाई, तिक्खुत्तो मग्गिऊण असतीए । गीयत्था जयणाए, वसंति तो अगणिसालाए ॥ ३४४२ ॥ 20 अध्वा - महदरण्यं ततो निर्गता आदिशब्दादशिवा - मौदर्यादिषु वर्त्तमाना विकालवेलायां तं ग्रामं प्राप्ताः 'त्रिकृत्वः' त्रीन् वारान् शुद्धां वसतिं मार्गयन्ति । यदि न प्राप्यते ततो गीतार्था यतनया अभिशालायां वसन्ति ॥ ३४४२ ॥ एतदेव स्पष्टयति .5 अद्धानियाई, तिहं असईऍ फरुससालाए । गीयत्था जयणाए, वसंति तो पयणसालाए ॥ ३४४३ ॥ अध्वनिर्गतादयः 'तिसृणां' पणितशाला - भाण्डशाला - कर्मशालानामन्यतरस्याः 'परुष शालायाः ' कुम्भकारशालाया अभावे ततो गीतार्था यतनया 'पचनशालायां' भाजनप कशालायां वसन्ति । इह शालात्रयग्रहणादन्या अपि कुम्भकारशालाः सूचिताः ॥ ३४४३ ॥ 25 30 तासां खरूपमुपदर्शयितुमाह पणिय भंडसाला, कम्मे पयणे य वरवरणसाला । इंधणसाला गुरुगा, सेसासु वि होंति चउलहुगा ॥ ३४४४ ॥ १ 'अभिष्व' भा० कां० । “ओसक्कइ' ति उम्मुगं ओसारेति, 'अभिसक्कइ' त्ति उत्तुअति उम्मुगं" इति चूर्णौ । "ओसक्कइ' उम्मुगं ओसारेह, 'अइसकद' उम्मुयं उत्तुयद्द" इति विशेषचूर्णौ ॥ २ 'गुणाद्वि' मो० ० ॥ Jain Education International ३°स्याः परुषः - कुम्भकारः तस्य शालाया अभावे भा० ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.002513
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages444
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy