SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ ९५९ भाष्यगाथाः ३४२६-३१] द्वितीय उद्देशः । 'चतुर्मूलं नाम' चतुर्भिः सुरभिमूलैर्भावितम् । एवं यत् पञ्चभिः सुरभिमूलै वितं तत् पञ्चमूलम् । तालोदकानि यथा तोसलिविषये । तापतोयानि राजगृहादौ । एवंविधानामुदकानां सन्निचया मयाऽन्यस्मिन् देशे कुटुम्बिनां गेहेषु दृष्टाः ॥ ३४२९ ॥ "एवं च भणियमेतम्मि कारणे सो भणाइ आयरिए । अस्थि महं सन्निचया, पेच्छह नाणाविहे उदए ॥” (गा० ३३६९) इत आरभ्य "आणता वि य तेणं, न वन्न-रूवेण साहति ॥” ( गा० ३३८८) इतिपर्यन्तं भाष्यं तथैवात्र वक्तव्यम् । नवरमुदकामिलापः कर्त्तव्यः ॥ ज्योतिःसूत्रम् ६ सूत्रम् उवस्सयस्स अंतो वगडाए सव्वराईए जोई झियाएज्जा, नो कप्पइ निग्गंथाण वा निग्गंथीण वा अहालंदमवि वत्थए । हुरच्छा य उवस्सयं पडिलेहमाणे नो लभेजा, एवं से कप्पइ एगरायं वा दुरायं वा वत्थए । जे तत्थ एगरायाओ वा दुरायाओ वा परं 15 वसइ से संतरा छेए वा परिहारे वा ६ ॥ एवं प्रदीपसूत्रमप्युच्चारणीयम् । अथास्य सूत्रद्वयस्य कः सम्बन्धः ? इत्याह उदगाणंतरमग्गी, सो उ पईवो व होज जोई वा । पडिवक्खेणं व गयं, समागमो एस सुत्ताणं ॥ ३४३० ॥ __प्रवचने ह्यप्कायप्ररूपणानन्तरममिकायः प्ररूप्यते, अतोऽत्राप्युदकसूत्रानन्तरमग्निसूत्रमा-20 रभ्यते । 'सच' अमिः प्रदीपो वा स्याद् ज्योतिर्वा । "पडिवक्खेण व गयं" ति भावप्रधानत्वान्निर्देशस्य प्रतिपक्षतया वा इदं सूत्रमागतम् । किमुक्तं भवति?-अप्कायस्यामिकायः शस्त्रम् , अग्निकायस्याप्यप्कायः, अत एतौ परस्परं प्रतिपक्षी, प्रतिपक्षत्वेन चाप्कायानन्तरं साम्प्रतमनिकायः प्ररूपणीयः । एषः 'समागमः' सम्बन्धो द्वयोरपि सूत्रयोर्मन्तव्य इति ॥ ३४३०॥ ___ अनेन सम्बन्धेनायातस्यास्य प्रथमसूत्रस्य तावद् व्याख्या-सा च प्राग्वत् । नवरं सार्व- 25 रात्रिकं 'ज्योतिः' अग्नियंत्रोपाश्रये 'ध्यायेत्' धातूनामनेकार्थत्वात् प्रज्वलेत् तत्र साधु-साध्वीनां वस्तुं न कल्पते ॥ अथ भाप्यविस्तर: देसीभासाएँ कयं, जा बहिया सा भवे हुरच्छा उ । बंधऽणुलोमेण कयं, छेए परिहार पुव्वं तु ॥ ३४३१ ॥ १°दकं यथा भा०॥ २°धानां तोयानां सन्नि भा० ॥ .. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002513
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages444
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy