________________
९५४
सनियुक्ति लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [उपाश्रयप्रकृते सूत्रम् ४ आम ति अब्भुवगए, भिक्ख-वियाराइनिग्गयमिएसु ।
भणइ गुरू सागारिय, कहि मजं जाणणट्ठाए ॥ ३४११॥ ___ यदि शय्यातरेण 'आमम्' इत्यभ्युपगतं 'यूयं निश्चिन्तास्तिष्ठथ, वयं यथाप्रवृत्तं व्यापार चिन्तयिष्यामः' इति, ततः 'गुरुः' आचार्यों भिक्षाचर्या-विचारभूम्यादिनिर्गतेषु मृगेषु6 अगीतार्थसाधुषु सागारिकं भणति 'कुत्र मद्यमस्ति ?' इत्येवं परिज्ञानार्थम् ॥ ३४११ ॥ किं भणति ! इत्याह
गोडीणं पिट्ठीणं, वंसीणं चेव फलसुराणं च ।
दिट्ठ मए सन्निचया, अन्ने देसे कुडुंबीणं ॥ ३४१२ ॥ 'गौडीनां' गुडनिष्पन्नानां 'पैष्टीनां' व्रीह्मादिधान्यक्षोदनिष्पन्नानां 'वांशीनां' वंशकरीलक10निष्पन्नानां 'फलसुराणां च' तालफल-द्राक्षा-खजूरादिनिष्पन्नानाम् एवंविधानां सुराणां सन्निचया अन्यसिन् देशे मया कुटुम्बिनां गृहेषु दृष्टाः ॥ ३४१२ ॥
"एवं च भणियमित्तम्मि कारणे सो भणाइ आयरियं । , अत्थि महं सन्निचया, पिच्छह नाणाविहे मजे ॥” (गा० ३३६९) इस्मादिकाः “दारं न होइ इत्तो०" (गा० ३३७५) इतिपर्यन्ता गाथाः प्राग्वदत्र सव्या16 ख्याना द्रष्टव्याः । अथात्रैव या विशेषतो यतना कर्तव्या तामभिधित्सुराह--
गहियम्मि वि जा जयणा, गेलन्ने अधव तेण गंधेणं ।
सागारियादिगहणं, णेयव्वं लिंगभेयाई ॥ ३४१३ ॥ शैक्षकेण विकटे 'गृहीते' पीते सति या यतना कर्तव्या सा वक्तव्या । ग्लानत्वे वा वैद्योपदेशेन विकट ग्रहीतव्यम् , अथवा 'तेन' विकटसम्बन्धिना गन्धेन कस्यापि गृहवासे विकट20 भावितस्याध्युपपातो भवेत् , ततः सागारिकः-शय्यातरः स आदिशब्दात् श्रावको वा यो मातापितृसमानस्ततो विकटस्य ग्रहणं कर्त्तव्यम् । यदि खलिङ्गेन न प्राप्यते उड्डाहो वा भवति ततो लिङ्गभेदादिकमपि 'नेतव्यं' कर्त्तव्यमिति यावत् । ऐष नियुक्तिगाथासमासार्थः ॥ ३४१३ ॥ अथैनामेव विवरीषुराह
पीयं जया होजऽविगोविएणं, तत्थाऽऽणइत्ताण रसं छुभंति । भिन्ने उ गोणादिपए करेंति, तेसिं पवेसस्स उ संभवम्मि ॥ ३४१४ ॥ यदा किल 'अविकोविदेन' शैक्षकेण शेषसाधुषु प्रसुप्तेषु तद् विकटं पीतं भवेत् तदा गीतार्थाः 'तत्र' विकटभाजने 'रसम्' इक्षुरसादिकमानीय प्रक्षिपन्ति । अथ कथमपि तद् भाजनं गृह्यमाणं मुच्यमानं वा भिन्नं ततो भिन्ने सति तस्मिन् गवादीनां पदानि प्रतिश्रयप्राङ्गणे प्रविशन्ति निर्गच्छन्ति च 'कुर्वन्ति' आलिखन्तीत्यर्थः, येन सागारिको जानते, यथा-गवादिना 30 प्रविश्य भग्नमिदं भाजनमिति । परं यदि 'तेषां' गवादीनां तत्र प्रवेशः सम्भवति; अन्यथा हि सागारिकः प्रद्वेषं यायात्-एकं तावदमी इत्थं स्तेनकर्मकारिणः अपरं च तदपहवनायेत्थं
१त्सुः सम हगाथामाह भा० ॥ २ “गहियम्मि य० गाहा पुरातना" इति विशेषचूर्णौ ॥ ३°ष सङ्गहगा भा०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org