SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ २५ भाप्यगाथाः ३४११-१८] द्वितीय उद्देशः । प्रपञ्चमुपरचयन्ति, धिगमीषां पाषण्डिनां धर्ममिति ॥ ३४१४ ॥ बंधित्तु पीए जयणा ठवेंति, मुद्दा जहा चिट्ठइ अक्खुया से । ऊणम्मि दिट्ठम्मि भणंति पुट्ठा, नूणं परिस्संदति भाणमेयं ॥ ३४१५ ॥ विकटे पीते तद् भाजनं द्वारदेशे वस्त्रादिना बद्धा 'जतुना' लाक्षया स्थगयन्ति, यथा "से" तस्य भाजनस्य मुद्रा अक्षता तिष्ठति । अथ सागारिकः तद् भाजनमूनं दृष्ट्वा पृच्छति-किमर्थ-5 मिदं न्यूनमवलोक्यते । एवं पृष्टाः सन्तो भणन्ति-नूनं भाजनमिदं परिस्यन्दति ॥३४१५॥ सव्वम्मि पीए अहवा बहुम्मि, संजोगपाढी व ठयंति अनं।। अभं व मग्गित्तु छुहंति तत्था, कीयंकयं वा गिहिलिंगमाई ॥३४१६ ॥ सर्वस्मिन् अथवा बहुके विकटे पीते सति ये 'संयोगपाठिनः' विकटनिष्पत्तियोग्यद्रव्यसंयोगवेदिनस्ते तथाविधानि द्रव्याणि संयोज्य अन्य विकटं स्थापयन्ति । अथ न सन्ति 10 संयोगपाठिनस्ततोऽन्यद् विकटं मार्गयित्वा तत्र प्रक्षिपन्ति । तच्च प्रथमतः शुद्धम् , तदभावे पञ्चकपरिहाण्या चतुर्लघुकं प्राप्तेन क्रीतकृतमपि ग्रहीतव्यम् । यदि खलिङ्गेन गृह्णतामुड्डाहो भवति, न वा तेन प्राप्यते ततो गृहिलिङ्गम् आदिशब्दादन्यतीर्थिकलिङ्गं वा कर्तव्यम् ॥ ३४१६ ।। १ अथ "गेलन्ने अहव तेण गंधेणं" (गा० ३४१३) इत्यादिपदानि व्याख्याति-- ‘तम्भावियट्ठा व गिलाणए वा, पुराण सागारिय सावए वा। 15 वीसंभणीआण कुलाणऽभावा, गिण्हंति स्वस्स विवजएणं ॥ ३४१७॥ तेन-विकटेन पूर्व भावितस्तद्भावितः स तत्र विकटेनाध्युपपन्नो भवति; ग्लानो वा कश्चित् तेनैवोपयुक्तेन प्रगुणीभवति नान्यथा; ततस्तदर्थ 'पुराणस्य' पश्चात्कृतस्य सकाशात् , तदभावे माता-पितृसमानो यः सागारिकस्तस्य हस्तात् , तदप्राप्तौ प्रतिपन्नाणुव्रतस्य माता-पितृसमानस्य श्रावकस्य पार्थाद् ग्रहीतव्यम् । अमीषामभावे यथाभद्रकाण्यपि यानि विश्रम्भणीयानि कुलानि, 20 नोड्डाहकारीणीत्यर्थः, तेषु ग्रहीतव्यम् । तेषामभावे यदि खलिङ्गेन गृह्यते ततः प्रवचनोपघातो भवेत् ततो रूपस्य विपर्ययेण गृहन्ति, लिङ्गविवेकं कृत्वा विकटमुत्पादयन्तीति भावः ॥३४१७॥ अचाउरं वा वि समिक्खिऊणं, खिप्पं तओ घेत्तु दलित्तु तस्स । __ अन्नं रसं वा वि तहिं छुभंती, संगं च से तं हवयंति तत्तो ॥ ३४१८ ॥ अत्यातुरं वा तं ग्लानं समीक्ष्य 'क्षिप्रं' शीघ्रं 'ततः' प्रतिश्रयवर्तिनो विकटभाजनाद् गृहीत्वा 25 'तस्य' ग्लानस्य दत्त्वा गीतास्तत्रान्यं वा रसं प्रक्षिपन्ति । ततश्च "से" तस्य ग्लानस्य 'त' विकटविषयं सङ्गं हापयन्ति, कार्ये निष्ठिते सति विकटप्रसङ्गं निवारयन्तीति भावः ॥ ३४१८॥ गता खपक्षयतना । अथ परपक्षयतनामाह "परपक्खम्मि वि दारं, पिहंति जयणाएँ दो वि वारिति । तह वि य अठायमाणे, उवेह पुट्ठा व साहति ॥” ( गा० ३३७६) 30 इत्यादिका मद्याभिलापविशेषिता गाथाः सर्वा अपि तथैवात्र वक्तव्याः ॥ १ एतदन्तर्गतमवतरणं भा० नास्ति ॥ २°कटगन्धेनाध्यु भा० का० ॥ ३°न्ति । यश्च "से" तस्य ग्लानस्य विकटविषयः सङ्गः तं हाप भा० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002513
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages444
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy