________________
९४९
भाप्यगाथाः ३३८८-९६] द्वितीय उद्देशः ।
लंछियाणि वा मुद्दियाणि वा, कप्पइ निग्गंथाण वा
निग्गंथीण वा वासावासं वत्थए ३॥ सअथ पुनरेवं जानीयात्-नो राशीकृतानि नो पुञ्जीकृतानि नो भित्तिकृतानि नो कुलिकाकृतानि कोष्ठागुप्तानि वा पल्यागुप्तानि वा मञ्चागुप्तानि वा मालागुप्तानि वा अवलिप्तानि वा लिप्तानि वा पिहितानि वा लाञ्छितानि वा मुद्रितानि वा । तत्र » कोष्ठे-कुशूले आगुप्तानि-प्रक्षिप्य : रक्षितानि कोष्ठागुप्तानि । एवमुत्तरत्रापि भावनीयम् । नवरं पल्यं-वंशकटकादिकृतो धान्याधारविशेषः, मञ्चः-स्थूगानामुपरिस्थापितवंशकादिमयो लोकप्रसिद्धः, मालकः-गृहस्योपरितनो भागः, 'अवलिप्तानि नाम' द्वारदेशे पिधानेन सह गोमयादिना कृतोपलेपानि, 'लिप्तानि' मृत्ति. कया सर्वतः खरण्टितानि, 'पिहितानि' स्थगितानि, 'लान्छितानि' रेखा-ऽक्षरादिभिः कृतलाञ्छनानि, 'मुद्रितानि' मृत्तिकादिमुद्रायुक्तानि । एवंविधेषु धान्येषु कल्पते निम्रन्थानां वा 10 निम्रन्थीनां वा वर्षावासं वस्तुमिति सूत्रार्थः ॥ अथ भाष्यम् -
कोहाउत्ता य जहिं, पल्ले माले तधेव मंचे य ।
ओलित्त पिहिय मुद्दिय, एरिस' ण कप्पती वासो ॥ ३३९३ ॥ यत्रोपाश्रये कोष्ठागुप्तानि पल्यागुप्तानि मालागुप्तानि मञ्चागुप्तानि अवलिप्तानि पिहितानि मुद्रितानि, उपलक्षणत्वाद् लिप्तानि लाञ्छितानि वा धान्यानि सम्भवन्ति, ईदृशे न कल्पते ।। वासः ॥ ३३९३ ॥ अथ सूत्रस्यैव विषमपदानि व्याचष्टे---
छगणादी ओलित्ता, लित्ता मट्टियकता उ ते चेव । कोट्ठियमादी पिहिता, लित्ता वा पल्ल-कडपल्ला ॥ ३३९४ ॥ ओलिंपिऊण जहि अक्खरा कया लंछियं तयं विति ।।
जहियं मुद्दा पडिया, होति तगं मुद्दियं धणं ॥ ३३९५ ॥ द्वारदेशे यानि छगणादिना लिप्तानि तान्यवलिप्तानि । यानि तु मृत्तिकया कृतानि-खरण्टितानि तानि लिप्तानि । कोष्ठिकादीनि यानि द्वारदेशे स्थगितानि तानि पिहितानि । पल्यकटपल्यानि तु लिप्तानि भवन्ति । इह पल्यात् कटपल्यमुच्चतरं भवतीति विशेषः ॥ ३३९४ ॥ __ अवलिप्य 'यत्र' धान्येऽक्षराणि कृतानि तद् लाञ्छितमिति ब्रुवते । यत्र तु धान्ये मुद्रा पतिता तद् मुद्रितं भवति ॥ ३३९५ ।।
25 उडुबद्धम्मि अतीए, वासावासे उवहिते संते ।
ठायंतगाण लहुगा, कास अगीयस्थ सुत्तं तु ॥ ३३९६ ॥ ऋतुबद्धे कालेऽतीते वर्षावासे उपस्थिते सति यदि कोष्ठागुप्तादिधान्ययुक्ते प्रतिश्रये तिष्ठन्ति तदा चतुर्लघवः । कस्य पुनरेतत् प्रायश्चित्तम् ? । सूरिराह-अगीतार्थस्य । 'सूत्रं तु' व "कल्पते कोष्ठागुप्तादिधान्येषु वर्षावासे वस्तुम्" इतिलक्षणं » गीतार्थविषयं मन्तव्यमिति वाक्यशेषः 30 ।। ३३९६ ॥ इत ऊर्द्धम् - ११ एतन्मध्यगतः पाठः भा० नास्ति ॥ २ कानि । शेषं प्राग्वदिति सूत्रार्थः भा० ॥
20
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org