________________
15
९४६
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [उपाश्रयप्रकृते सूत्रम् २ पिधानं कुर्वन्ति । तथा द्वौ नाम-तिर्यङ्-नरौ, अथवा खरः-दासः खरिका-दासी एतौ, यद्वा पुरुष-स्त्रीरूपौ, अथवा निसृष्टः इतरश्च-अनिसृष्टः । निसृष्टो नाम-यस्य शय्यातरेण प्रवेशोऽनुज्ञातः, अनिसृष्टस्तद्विपरीतः । अथवा निसृष्टाः-आक्रान्तिकाः स्तेनाः, अनिसृष्टाः अनाकान्तिकाः । एते धान्यग्रहणं कुर्वन्तो वारणीयाः ॥ ३३७७ ॥ कथम् ! इत्याह
गेण्हंतेसु य दोसु वि, वयणमिणं तत्थ बिंति गीयत्था ।
बहुगं च णेसि धणं, किं पगतं होहिती कल्लं ॥ ३३७८ ॥ स्त्री-पुरुषादिरूपयोर्द्वयोरपि धान्यं गृहानयोर्गीतार्था इदं वचनं ब्रुवते-भो भद्र ! बहिदं धान्यमद्य नयसि किं कल्ये 'प्रकृतं' प्रकरणं भविष्यति ? ॥ ३३७८ ॥
नीसढेसु उवेहं, सत्थेण व तासिता उ तुहिक्का । 10 बहुसो भणाति महिलं, जह तं वयणं सुणति अण्णो ॥ ३३७९ ॥
निसृष्टाः-आक्रान्तिकस्तेनाः ये बलादपि हरन्ति तेषु समागतेषु उपेक्षां कुर्वन्ति-तूष्णीकास्तिष्ठन्ति । अथवा खनादिना शस्त्रेण त्रासिताः सन्त इतरेष्वप्यनाक्रान्तिकेषु तूष्णीका भवन्ति । अथ महिला काचित् तत्र धान्यं नयति ततस्ता महिला तथा भणन्ति यथा तद् वचनमन्यः शृणोति ॥ ३३७९ ॥ इदमेव व्यक्तीकरोति
साहूणं वसहीए, रत्तिं महिला ण कप्पती एंती।
बहुगं च णेसि धणं, किं पाहुणगा विकालो य ॥ ३३८० ॥ साधूनां वसतौ रात्रौ 'महिला' स्त्री न कल्पते "एंती" आगच्छन्ती, त्वं च बहिदं धान्यं गृह्णासि किं प्राघुणकाः समायाताः ?, विकालश्च सम्प्रति वर्त्तते ततो नेदानी ते ग्रहीतुमवसर
इति ॥ ३३८० ॥ 20
तेणेसु णिसढेसुं, पुवा-ऽवररतिमल्लियंतेसु ।
तेणबियरक्खणट्ठा, वयणमिणं ति गीतत्था ॥ ३३८१ ॥ _ 'निसृष्टेषु' आक्रान्तिकेषु स्तेनेषु पूर्वरात्रमपररात्रं वा तत्राऽऽलीयमानेषु स्तेनेभ्यः सकाशाद् बीजानां रक्षणार्थ गीतार्था उच्चशब्देनेदं वचनं ब्रुवते ॥ ३३८१ ॥ किं तत् ? इत्याह
जागरह नरा! णिचं, जागरमाणस्स वड्ढते बुद्धी।
जो सुवति ण सो धण्णो, जो जग्गति सो सया धण्णो ॥ ३३८२ ॥ भो नराः ! नित्यं 'जागृत' जाग्रतस्तिष्ठत, यतो जाग्रतो बुद्धिः सूत्रा-ऽर्थानुप्रेक्षादिना वर्द्धते, अत एव यः खपिति नासौ 'धन्यः' ज्ञानादिधनार्हः, यस्तु जागर्ति स सदा धन्यः ॥ ३३८२॥
सीतंति सुवंताणं, अत्था पुरिसाण लोगसारत्था ।
तम्हा जागरमाणा, विधुणध पोराणयं कम्मं ॥३३८३ ॥ 30 खपतां पुरुषाणाम् 'अर्थाः' ज्ञानादयः 'लोकसारार्थाः' त्रैलोक्यप्रधानप्रयोजनभूताः 'सीदन्ति' हानिमुपगच्छन्ति । यत एवं तस्माद् जाग्रतः सन्तः पुरातनं कर्म विधूनयत ॥ ३३८३ ॥
सुवति सुवंतस्स सुतं, संकित खलियं भवें पमत्तस्स । १ तुसिणीया ता० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org