SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथाः ३३६८-७७] द्वितीय उद्देशः । ९४५ 'निषण्णाः ते सूत्रार्थमनुप्रेक्षमाणास्तिष्ठन्ति । यश्च शैक्षादिरपरिणतस्तेषां धान्यराशीनां समीपे व्रजति तत्र गुरवो वृषभा वा सजागराः स्वपन्तस्तथा काशितादिशब्दं कुर्वन्ति यथाऽसौ प्रतिनिवर्त्तते । अथासौ 'बहुशः' भूयो भूयोऽभिद्रवति ततो गुरुभिः सामान्यत इदं वचनं वक्तव्यम्-आर्याः ! उत्तिष्ठत येन युप्मभ्यं वाचनां प्रयच्छामि । यद्वा तमेव साधु भणन्तिआर्य ! तुभ्यमहं वाचनां प्रयच्छामि ? ॥ ३३७३ ॥ फिडियं धण्णहूं वा, जतणा वारेति न उ फुडं बेंति । मा णं सोही' अण्णो, णित्थको लज गमणादी ॥ ३३७४ ॥ "स्फिटितं' दिङ्मूढतया द्वारात् परिभ्रष्टं 'धान्यार्थिनं वा' धान्यभक्षणाभिलाषिणं साधु यतनया वारयन्ति, न पुनस्तस्य सम्मुखं 'स्फुट' रूक्षवचनं ब्रुवते । कुतः ? इत्याह-मा स्फुटमभिधीयमानमन्यः श्रोष्यति, स च श्रुत्वा अन्येषां कथयेत् , ततश्च परम्परया सर्वैरपि साधुभि-10 ख़ते 'नित्थक्कः' निर्लज्जो भवेत् । यद्वा 'ज्ञातोऽस्म्यहम्' इति लज्जया प्रतिगमन-वैहायसादीनि विदध्यात् ॥ ३३७४ ॥ कथं पुनर्वारयन्ति ? इत्याह दारं न होइ एत्तो, णिद्दामत्ताणि पुंछ अच्छीणि । भण जं व संकियं ते, गिण्हह वेरत्तियं भंते ! ॥ ३३७५ ॥ यः स्फिटितो धान्यार्थी वा साधुः स वक्तव्यः-आर्य ! यत्र भवान् गच्छति इतो द्वारं न 15 भवति, निद्राप्रमत्ते वाऽक्षिणी 'प्रोञ्छ' हस्तेन परिस्पृश्योन्मीलयेत्यर्थः, यच्च किमपि ते सूत्रेऽर्थे वा शङ्कितं तदस्माकमग्रे भण येन निःशङ्कितं कुर्महे । यद्वा साधवो वक्तव्याः-'भदन्ताः !' आर्याः ! गृह्णीध्वं वैरात्रिकं कालं येन खाध्यायः क्रियते ॥ ३३७५ ।। गता खपक्षयतना । अथ परपक्षयतनामाहे-(सर्वग्रन्थाग्रम्-२३४२०) परपक्खम्मि वि दारं, पिहंति जतणाएँ दो वि वारेति । 20 तह वि य अठायमाणे, उवेह पुट्ठा व साहिति ॥ ३३७६ ॥ 'परपक्षे' गो-श्वान-मार्जारादौ प्रतिश्रयं प्रविशति यतनया द्वारं पिदधति । अथ द्वारं पिधातव्यं न भवति ततः 'द्वावपि' तिर्यङ्-मनुष्यौ दासी-दासौ वा स्त्री-पुरुषौ वा आक्रान्तिकाऽनाक्रान्तिकस्तेनौ वा प्रविशन्तौ निवारयन्ति । यदि तथापि 'न तिष्ठन्ति' धान्यग्रहणाद् नोपरमन्ते तत उपेक्षां कुर्वन्ति, तूष्णीकास्तिष्ठन्तीति भावः । सागारिकेण च 'केनेदं धान्यं नीतम् ?' 25 इति पृष्टाः सन्तः कथयन्ति- अमुकेनामुकया वा इति सङ्ग्रहगाथासमासार्थः ॥ ३३७६ ॥ अथैनामेव विवरीषुराह पेहिय पमजिया णं, उवओगं काउ सणिय ढकेंति । तिरिय णर दोनि एते, खर-खरि पुं-थी णिसिडितरे ॥ ३३७७॥ चक्षुषा प्रत्युपेक्ष्य रजोहरणेन प्रमृज्य शनैर्यथा जीवानां विराधना न स्यात् तथा 'तं' द्वार 30 'ढक्कयन्ति' स्थगयन्ति । अथ तदानीमचक्षुर्विषयं ततः श्रोत्रादिभिरिन्द्रियैरुपयोगं कृत्वा द्वार १ सोहिति अ° ता० ॥ २ एतदनन्तरं ताटी० मो० ले० प्रतिषु ग्रन्थानम्-७५०० इति वर्तते ।। ३ °न्यं गृहीतम् ?' का० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002513
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages444
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy