SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ 10 ९४४ सनियुक्ति-लघुभाप्य-वृत्तिके बृहत्कल्पसूत्रे [ उपाश्रयप्रकृते सूत्रम् २ सालीणं वीहीणं, तिल-कुलत्थाण मुग्ग-मासाणं । दिट्ठ मए सण्णिचया, अण्णे देसे कुटुंबीणं ॥३३६८॥ शालीनां व्रीहीणां तिल-कुलत्थानां मुद्गानां माषाणां च सन्निचया अन्यस्मिन् देशे कुटुम्बिनां गृहेषु मया दृष्टाः ॥ ३३६८ ॥ एवं च भणितमित्तम्मि कारणे सो भणाति आयरियं । अस्थि महं सण्णिचया, पेच्छह णाणाविहे धण्णे ॥ ३३६९ ॥ एवं चाचार्येण भणितमात्रेऽपि स सागारिकः कथनकारणे क्रमप्राप्ते सति आचार्य भणतिभगवन् ! सन्ति मे बहवः सन्निचयाः, पश्यत नानाविधानि धान्यानि । एवं ब्रुवन् हस्तसंज्ञया निर्दिशति, यथा-अत्र शालयः सन्ति, अत्र गोधूमाः, अत्र तिला इत्यादि ॥ ३३६९ ॥ उवलक्खिया य धण्णा, संथाराणं जहाविधि ग्गहणं ।। जो जस्स उ पाउग्गो, सो तस्स तहिं तु दायव्यो । ३३७० ॥ आचार्येणोपलक्षितानि तानि धान्यानि, ततः संस्तारकाणां 'यथाविधि' यथारनाधिकं ग्रहणे प्राप्तेऽपि तत्र सूरय औत्पत्तिकीं सामाचारी स्थापयन्ति । कथम् ? इत्याह—यः 'यस्य' शैक्ष-ग्लानादेगीतार्थादेर्वा धान्यस्य दूरेऽदूरे वा यत्र संस्तारकः प्रायोग्यः स तस्य तत्रावकाशे 16 दातव्यः ॥ ३३७० ॥ निक्खम-पवेसवजण, दरेण अभाविया तु धण्णाणं । धण्णंतेण परिणता, चिलिमिणि दिवरत्तऽसुण्णं तु ॥ ३३७१ ॥ यत्र सागारिको धान्यग्रहणार्थ निष्क्रामति प्रविशति वा तमवकाशं वर्जयित्वा साधुभिरासितव्यं शयितव्यं वा । ये पुनः 'अभाविताः' अगीतार्थास्ते धान्यानां दूरेण स्थाप्यन्ते । ये तु 20 'परिणताः' धर्मश्रद्धालवः स्थिरचेतसश्च ते धान्यानाम् अन्तेन-पार्श्वेन क्रियन्ते । धान्यानां चापान्तराले चिलिमिलिका दातव्या । गीतार्थपरिणामकैश्च दिवा च रात्रौ चाशून्यं कर्त्तव्यम् ॥ ३३७१ ॥ ते तत्थ सन्निविट्ठा, गहिया संथारगा विहीपुत्वं । जागरमाण वसंती, सपक्खजतणाएँ गीयत्था ॥ ३३७२ ।। 25 'ते' साधवः तत्र' उपाश्रये सन्निविष्टाः सन्तः खाध्यायादिकं कुर्वन्तीति वाक्यशेषः । तैश्च संस्तारकाः 'विधिपूर्व' यथा पूर्वोक्ता दोषा न भवन्ति तथा गृहीताः । तत्र च गीतार्थाः 'खपक्षयर्तनायै' खपक्षविषयरक्षार्थ 'जाग्रतः' सजागराः 'वसन्ति' .खपन्ति ॥ ३३७२ ॥ ठाणं वा ठायंती, णिसिज अहवा सजागर सुवति ।। बहुसो अभिवेंते, वयणमिणं वायणं देमि ॥ ३३७३ ॥ 10 ये वा दृढसंहननास्ते 'स्थानं तिष्ठन्ति' कायोत्सर्ग कुर्वन्तीत्यर्थः । अथवा "निसिज्ज" त्ति १°ण सुवंती भा० । एतदनुसारेणैव भा० टीका । दृश्यतां टिप्पणी २॥ २°तनां-वपक्षविषयां रक्षां कुर्वाणाः 'जाग्रतः' सजागराः स्वपन्ति भा० ॥ ३°न्तीति भावः । अथवा भा०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002513
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages444
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy