SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथाः ३३५८-६७] द्वितीय उद्देशः । गीतत्था जतणाए, वसंति तो धण्णसालाए ॥ ३३६३ ॥ ___ अध्वनिर्गतादयः 'विकृत्वः' त्रीन् वारान् विशुद्धां वसतिं मार्गयित्वा यदि न प्रामुवन्ति तदा गीतार्था यतनया धान्यशालायां वसन्ति ॥ ३३६३ ॥ तामेव यतनामाह तुस-धन्नाई जहियं, णिप्परिसाड-परिसाडगाई वा । तेसु पढमं तु ठायति, तेसऽसती दंतखजेसु ॥ ३३६४ ॥ 5 येषूपाश्रयेषु 'तुषधान्यानि' व्रीहि-यवादीनि निष्परिशाटीनि परिशाटीनि वा भवन्ति तेषु प्रथमतस्तिष्ठन्ति । तेषामभावे यत्र 'दन्तखाद्यानि' तिलादीनि धान्यानि तत्र तिष्ठन्ति ॥ ३३६४ ॥ तिष्ठतां च यदि वसतिखामी ब्रूयात्-यद्यस्माकम् अस्मद्वालकानां वा ज्योतिषादिकमक्षरादिविज्ञानं वा कथयिष्यथ गृहादिकं वा रक्षिष्यथ ततो वसतिं प्रयच्छाम इति । तत्र साधुभिर्वक्तव्यम् 10 ण वि जोइसं ण गणियं, ण अक्खरे ण वि य किंचि रक्खामो। अप्पस्सगा असुणगा, भातणखंभोवमा वसिमो ॥ ३३६५ ॥ वयं नापि ज्योतिषं न गणितं नाक्षराणि वा शिक्षयामो न वा जानीमः, नापि च किञ्चिद् गृहादिकं रक्षामः, किन्तु भाजनस्तम्भोपमा वसामः । यथा भवतां भाजन-स्तम्भ-कुड्यादीनि सौस्थ्य-दौःस्थ्यव्यापारं न वहन्ति, एवं वयमपि भवद्भिर्मन्तव्याः । अत एव भवद्गृहे कस्यापि 15 कार्यस्य विपत्तिं पश्यन्तोऽप्यपश्यकाः । यदा च कोऽपि ब्रूयात्-इदं शय्यातरस्य कथयत तदा वयं शृण्वन्तोऽप्यश्रोतारो मन्तव्याः । । यद्येवमभ्युपगच्छति तदा स्थातव्यम् ॥ ३३६५ ॥ अत एवाह - निकारणम्मि एवं, कारणे दुलभे भणंतिमं वसभा। अम्हे ठितेल्लग चिय, अधापवत्तं वहह तुम्भे ॥ ३३६६ ॥ 20 'निष्कारणे' कारणाभावे एवं तिष्ठन्ति । अथाशिवादौ कारणे शुद्धा वसतिर्दुर्लभा ततो धान्यशालायां तिष्ठन्त इत्थं साधारणवचनं वृषभा भणन्ति-वयं तावदत्र स्थिता एव, यूयमपि यथाप्रवृत्तं दिवसदैवसिकं व्यापार वहथैव ॥ ३३६६ ॥ गता अनुज्ञापनायतना । अथ स्वपक्षयतनामाह आमं ति अब्भुवगते, भिक्ख-वियारादि णिग्गत मिएस। भणति गुरू सागारिय, गाउं जे कत्थ किं धणं ।। ३३६७ ॥ 'आमम्' इत्यनुमतार्थद्योतकमव्ययम् । यदि सागारिकेणानुमतम्-मम निष्प्रत्युपकारिणो भूत्वा यूयं तिष्ठत; ततस्तत्र स्थातव्यम् । स्थितानां च तत्रायं विधिः-यदा सर्वेऽपि मृगाःअगीतार्थी भिक्षायां विचारभूम्यादौ वा निर्गता भवन्ति तदा 'गुरुः' आचार्यः सागारिकमन्यव्यपदेशेन भणति । किमर्थम् ? इत्याह-कुत्र किं धान्यं वर्तते ? इति ज्ञातुम् । “जे" इति 3c पादपूरणे ॥ ३३६७ ॥ १ भवदहे कस्यापि भा० का० ॥२ स्याधिपत्तिं त० डे० ॥३॥ एतन्मध्यगतः पाठः भा० नास्ति ॥ ४ °ह-'ज्ञातुं' परीक्षितुम् , “जे” इति वाक्यालङ्कारे, कुत्र किं धान्यं वर्तते ॥ भा०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002513
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages444
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy