________________
10
९४२
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ उपाश्रयप्रकृते सूत्रम् २ स सागारिकस्तत्र धान्यराशीन् 'ऊनान्' तुच्छान् दृष्ट्वा, सर्व वा धान्यं 'नीतम्' अपहृतं विलोक्य, यद्वा धान्यस्य खेरि-परिशाटिं दृष्ट्वा पृच्छति–केनेदमपहृतम् ? । साधवो ब्रुवतेस्तेनैः । स भूयः पृच्छति-के पुनः स्तेनाः ? । ततो यदि नाम्ना वर्णेन वयसा वा निर्दिश्य कथयन्ति ततः स्तेनानां ग्रहणा-ऽऽकर्षणादयो दोषाः । 'अशिष्टे' अकथिते 'एतैरेव हृतम्' 5 इति शङ्का स्यात् तत्र भद्रकेतरदोषा भवन्ति । यद्यसौ सागारिको भद्रकस्तदा अनुग्रहं मन्येत । अथ 'इतरः' प्रान्तस्ततोऽप्रीतिकादयो दोषाः ॥ ३३५७॥ तेषु च भद्रक-प्रान्तदोषेष्विदं प्रायश्चित्तम् -
लहुगा अणुग्गहम्मि, गुरुगा अप्पत्तियम्मि कायव्वा । कडुग-फरुसं भणंते, छम्मासा करभरे छेदो ॥ ३३५८ ॥ मूलं सएज्झएसुं, अणवट्ठप्पो तिए चउके य ।
रच्छा-महापहेसु य, पावति पारंचियं ठाणं ॥ ३३५९ ॥ गाथाद्वयस्य व्याख्या प्राग्वत् (गा० ३३४८-४९)॥ ३३५८ ॥ ३३५९॥
एगमणेगे छेदो, दिय रातों विणास-गरहमादीया ।
जं पाविहिंति विहणिग्गतादि वसधिं अलभमाणा ॥ ३३६०॥ 15 सागारिकः प्रद्विष्टः सन् एकेषां तेषामेव अनेकेषां वा-सर्वसाधूनाम् , यद्वा एकस्य-तद्रव्यस्य अनेकेषां वा-तद्रव्या-ऽन्यद्रव्याणां व्यवच्छेदं विदध्यात् । अथवा दिवा निष्काशयति चतुर्लघु, रात्रौ निष्काशयति चतुर्गुरु । निष्काशिताश्च स्तेन-श्वापदादिभिर्विनाशं लोकाद्वा गर्दामासादयन्ति, 'एते स्तेनाः' इति कृत्वा निष्काशिताः, आदिग्रहणेनं ग्रहणा-ऽऽकर्षणादयो
दोषाः » । यच्च विधं-अध्वा ततो निर्गता आदिशब्दादशिवादिनिर्गता वा तदीयदोषेण 20 वसतिमलभमाना आत्मविराधनादिकं प्राप्स्यन्ति तन्निष्पन्नम् ॥ ३३६० ॥ एतेऽगीतार्थानां दोषा उक्ताः । अथ गीतार्थानधिकृत्य विधिमाह
गीयत्थेसु वि एवं, णिकारण कारणे अजतणाए ।
कारणे कडजोगिस्सा, कप्पति तिविहाएँ जतणाए ॥ ३३६१॥ गीतार्था अपि यदि निष्कारणे धान्यशालायां तिष्ठन्ति, कारणे वा स्थिता यतनां न कुर्वन्ति 25 ततस्तेष्वप्येवमेव दोषाः । अथ 'कृतयोगी' गीतार्थः कारणे तिष्ठति तदा तस्य 'त्रिविधया यतनया' अनुज्ञापनादिविषयया वक्ष्यमाणया तत्र स्थातुं कल्पते ॥३३६१॥ इदमेव स्पष्टतरमाह
निकारणम्मि दोसा, पडिबद्धे कारणम्मि निदोसा ।
ते चेव अजतणाए, पुणो वि सो लग्गती दोसे ॥ ३३६२ ॥ धान्यप्रतिबद्धे गृहे निष्कारणे तिष्ठतामेते दोषा मन्तव्याः । कारणे तु यतनया तिष्ठन्तो 30निर्दोषाः । अथ कारणे स्थितो यतनां न करोति तदा 'तानेव' पूर्वोक्तान् दोषान् 'लगति' प्रामोति ॥ ३३६२ ॥ किं पुनस्तत् कारणम् ? इत्याह
___ अद्धाणनिग्गतादी, तिक्खुत्तो मग्गिऊण असतीए । १४- एतन्मध्यगतः पाठः भा० नास्ति ॥
FREEEEEEEEEETHEL
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org