________________
15
.
भाष्यगाथाः ३३४९-५७] द्वितीय उद्देशः ।
९४१ ___लहुगा य जं च जत्तो, असिढ़ें संकापदं जं च ॥ ३३५३ ॥ __ अचैतद्दोषभयात् 'तेषां' ब्यक्षरकादीनां वारणं न करोति तदा चतुर्लघवः । ते चावारिताः सन्तः प्रविश्य धान्यं भक्षयेयुरपहरेयुर्वा ततो यदि 'गोसे' प्रत्यूषे सागारिकस्य कथयन्ति यथा 'अमुकेनामुकेन च रात्रौ धान्यमपहृतम्' ततश्चतुर्लघुकाः । 'शिष्टे' कथिते सति स रुष्टः सन् यद् ब्यक्षरकादीनां परितापनादि 'यतः' बन्धन-घातनविशेषतः करिष्यति तन्निष्पन्नं प्रायश्चि-5 तम् । अथ न कथयन्ति ततोऽपि चतुर्लघुकाः । यच्च साधूनामुपरि शङ्कापदं शय्यातरः करोति-'नूनमेतैरपहृतं यदेवं न कथयन्ति' तत्र चतुर्लघु । निःशङ्किते चतुर्गुरु ॥ ३३५३ ।। गवादीनां वारणे दोषानुपदर्शयति
तिरियनिवारण अभिहणण मारणं जीवघातों णासंते ।
खरिया छोभ विसागणि, खरए पंतावणादीया ॥ ३३५४ ॥ 10 गवादीनां तिरश्चां निवारणे शृङ्गादिना संयतानामभिघातो मारणं वा भवेत् । ते च निवारिता नश्यन्तो जीवघातं कुर्युः । यक्षरिका च निवारिता संयतानां 'छोभम्' अभ्याख्यानं दद्यात्-एष श्रमणो मां प्रार्थयते; विषं वा दद्यात् , वसतिं वाऽमिना प्रज्वालयेत् । व्यक्षरको वा प्रद्विष्टः प्रान्तापनादिकं कुर्यात् ॥ ३३५४ ॥ अथ स्तेनका येन कारणेन धान्यमपहरन्ति तत् प्रतिपादयति
आसन्नो य छणूसवों, कजं पि य तारिसेण धण्णेणं ।
तेणाण य आगमणं, अच्छह तुण्हिक्कका तेणा ॥ ३३५५ ॥ क्षणः-एकदैवसिकः, उत्सवः-बहुदैवसिकः, क्षणयुक्त उत्सवः क्षणोत्सवः, शाकपार्थिवादिवद् मध्यपदलोपी समासः, क्षण उत्सवो वा इत्यर्थः । स स्तेनानां प्रत्यासन्नो वर्तते, तत्र च तेषां तादृशेन धान्येन कार्यमस्ति ततः स्तेनानामागमनम् , ततश्चागीतार्था भणन्ति–भदन्त ! 20 स्तेनाः समायाताः सन्ति अतस्तूष्णीकास्तिष्ठथ । न कल्पते साधूनामेवमाख्यातुम्-अयं स्तेनः, अयं चोपचरक इति । अथवा संयतैः 'स्तेना आयाताः सन्ति' इत्युक्ते स्तेना ब्रुवतेसंयताः ! तूष्णीकास्तिष्ठथ, अन्यथा युष्मानपद्रावयिष्यामः ॥ ३३५५ ॥ एवमुक्त्वा तैः किं कृतम् ? इत्याह
गहियं च हिँ धणं, घेत्तूण गता जहिं सि गंतव्यं ।
सागारिओ य भणती, सउणी वि य रक्खए णेहुं ॥ ३३५६ ॥ गृहीतं च 'तैः' तेनकैर्धान्यम् , गृहीत्वा च ते गतास्तत्र खस्थाने यत्र तेषां गन्तव्यम् । सागारिकश्चात्मीयकार्येण प्रभाते समागतो मुद्राभेदं दृष्ट्वा भणति-भगवन् ! 'शकुनिकाऽपि' पक्षिण्यपि तावदात्मनः 'नीडम्' आश्रयं रक्षति, भवद्भिः पुनरेतदपि न रक्षितमिति भावः ॥ ३३५६ ॥
रासी ऊणे दढे, सव्वं णीतं व धण्णखेरिं वा ।
केण इमं तेणेहिं, असिढ़े भद्देतर इमं तु ॥ ३३५७ ॥ । १ तेषां' व्यक्षरक-ठ्यक्षरिका-स्तेनानामवारणे प्रत्येकं चतुर्लघवः भा० ॥
30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org