________________
९४०
सनिर्युक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ उपाश्रयप्रकृते सूत्रम् २
धिग् मुण्ड !, दुरात्मन् !' इत्यादि वचनं भणति तदा षगुरवः । अथैवं ब्रूयात् - अहो ! राजकरभर भरस्माभिरिदानीं श्रमणकरो वोढव्यः; तदा छेदः प्रायश्चित्तम् ॥ ३३४८ ॥ मूलं सएज्झएसुं, अणवटुप्पो तिए चउक्के य ।
रच्छा - महापथेसु य, पावति पारंचियं ठाणं ।। ३३४९ ॥
5
"
सइज्झका नाम -सहवासिनः प्रातिवेश्मिका इत्यर्थः तैः परिज्ञातम् यथा श्रमणैर्धान्यं स्तैन्येन भक्षितम् ; ततो मूलम् । अथ त्रिके चतुष्के वा साधूनां स्तेनवादः प्रसरमुपगतः ततोऽनवस्थाप्यम् । अथ रथ्यासु महापथेषु वा स्तैन्यापयशः समुच्छलितं ततः पाञ्चिकं स्थानमा - चार्यादिः प्राप्नोति ॥ ३३४९ ॥ अथ कटुक- परुष-करभरपदानि व्याचष्टे -
चोरुचि कय दुब्बोडितो त्ति फरुसं हतो सि पव्वावी ! । समणकरो वोढव्वो, जातो णे करभरहताणं ।। ३३५० ॥
‘चौरस्त्वम्' इत्यादि वचनं कटुकम् । यत्तु 'दुर्मुण्डः' इति वा 'हतोऽसि प्रत्रजित !' इति वा वचनं तत् परुषं मन्तव्यम् तथा स शय्यातरो ब्रूयात् - अस्माकं करभरहतानां सम्प्रति श्रमणानां करो वोढव्यः सञ्जातः ॥ ३३५० ॥
10
एषा स्वपक्षविषया अयतनाऽभिहिता । अथ परपक्षविषयामयतनामाह
परपक्खम्मि अजयणा, दारे उ अवंगुतम्मि चउलहुगा । पिणे वि होंति लहुगा, जंते तसपाणघातो य ॥। ३३५१ ॥ मनुष्य- गवादयो येऽसंयतास्ते परपक्षः तद्विषया अयतना भाव्यते — इह कोलि कादिजीवविराधाभयाद्यदि द्वारमपावृतं करोति-न स्थगयतीत्यर्थः ततश्चतुर्लघवः । अथ द्वारस्य पिधानं कुर्वन्ति तदापि चतुर्लर्धेवः । 'यत्रे' चचुइआरकाख्ये सञ्चारिमानामुद्देहिकादीनां त्रप्राणिनां 20 घातो भवतीति तन्निष्पन्नं प्रायश्चित्तम् ॥ ३३५१ ॥
15
गोणे य साणमादी, वारण लहुगा य जं च अधिकरणं । खरए य तेण या, गुरुगा य पदोसओ जं च ॥ ३३५२ ॥ अपिहिते द्वारे गौः प्रविष्टो धान्यं भक्षयेत्, श्वानो वा आदिशब्दाद् मार्जारो वा प्रविश्य धान्यं विकिरेत् खादेद्वा, ते च यदि वार्यन्ते तदा चतुर्लघवः । ते च वारिताः प्रतिनिवृत्य 25 व्रजन्तो हरितमर्दनादिरूपं यदधिकरणं कुर्वन्ति तन्निष्पन्नम् ; चशब्दादन्तरायं च तेषां कृतं भवति । तथा शय्यातरस्य यद् व्यक्षरकं - दास-दासीरूपं ये च स्तेनकास्ते धान्यं हर्तुकामा यदि वार्यन्ते तदा चतुर्गुरुकाः । ते च वारिताः प्रद्वेषतो यदभ्याख्यान- परितापनादिकं करिष्यन्ति तन्निष्पन्नं प्रायश्चित्तम् || ३३५२ ॥
तेसि अवारणें लहुगा, गोसे सागारियस्स सिट्ठम्मि ।
१यां यतनामसौ न जानीते । कथम् ? इति चेद् उच्यते - आवर्तन पीठिकायां जीवव्यपरोपण भया भा० ॥ २ ताटी० कां० विनाऽन्यत्र - 'र्लघु । 'यन्त्रे' चचुइआकार के सश्चारि° त० डे, मो० ० | र्लघु । वर्त्तनपीठिकायां सञ्चारि° मा० ॥
३ द्वारे गो- श्वान - मार्जारादयः प्रविशेयुः । ते च यदि भा० ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org