________________
भाष्यगाथाः ३३३८-४८ ]
द्वितीय उद्देशः ।
९३९
'विगते' व्यतीते सति कौतुके ' षष्ठ व्रतस्य विराधना ममाभूत्, एकत्रतभङ्गे च सर्वत्रतभङ्गः' इति कृत्वा 'प्रतिगमनं' भूयोऽपि गृहवासाश्रयणं कुर्यात्, वैहायसं वा मरणमभ्युपगच्छेत्, ‘अवधावनं वा' संविग्नविहारं कुर्वीत, पार्श्वस्थादिविहारमाद्रियेत इत्यर्थः । अथवा स संयतस्तिलभक्षणं विदधानो ग्लानेन वा शैक्षेण वा दृष्टो भवेत् ॥ ३३४३ ॥ ततश्च -
दडूण वा गिलाणो, खुधितो भुंजेज जा विराधणता । एमेव सेधमादी, भुंजे अप्पच्चयो वा सिं ॥। ३३४४ ॥
तं साधुं तिलान् भक्षयन्तं दृष्ट्वा ग्लानः क्षुधितः सन् तांस्तिलान् भुञ्जीत, ततश्चापथ्यप्रति - सेवनेन या तस्य परितापनादिका विराधना तन्निष्पन्नं प्रायश्चित्तम् । एवमेव शैक्षादयोऽपि तं तिलान् भुञ्जानं दृष्ट्वा तथैव भुञ्जीरन्, अप्रत्ययो वा तेषां भवेत् — यथैतद् मृषा तथाऽन्यदप्यमीषामेवंविधमिति ॥ ३३४४ ॥
उड्डाहं व करेजा, विष्परिणामो व होज सेहस्स ।
हंतेण व तेणं, सव्वो पुंजी समारो ।। ३३४५ ॥
स शैक्षस्तं तिलान् भक्षयन्तं विलोक्यापरापरजनेभ्यः कथयन्नुड्डाहं वा कुर्यात्, विपरिणामो वा शैक्षस्य भवेत्, विपरिणतश्च सम्यक्त्वं चारित्रं लिङ्गं वा परित्यजेत् । तेन च साधुना 'गृहता' भक्षयता सर्वोऽपि तिलपुञ्जः खादितुं समारब्धः ॥ ३३४५ ॥ ततश्चफेडिय मुद्दा तेणं, कजे सागारियस्स अतिगमणं । केण इमं तेणेहिं, तेणाणं आगमो कत्तो ।। ३३४६ ॥
5
तिलपुञ्जस्य या छगणपानीयादिना मुद्रा कृताऽऽसीत् सा 'तेन', तिलान् भक्षयता 'स्फेटिता ' अपनीता । तत्र च क्वचित् कार्ये 'सागारिकस्य' शय्यातरस्य 'अतिगमनं' प्रवेशो भवेत् । दृष्टश्च तेन खण्डितस्तिलपुञ्जः । ततः पृष्टाः – केनेदं धान्यं विलुप्तम् ? | साधवो भणन्ति —स्तेनैः । 20 सागारिकः प्राह — स्तेनानामागमः कुतो नामास्महे सञ्जातो येनास्माभिर्न ज्ञातः ? इति । ततः सागारिकेण चेतसि निश्चितम् — नूनमेतैरेव भक्षितमिदं धान्यमिति ॥ ३३४६ ॥
१° तो सिंह, गि' भा० । 'तो मिं, गि' तामा० ॥
10
स भद्रको वा स्यात् प्रान्तो वा । भद्रकस्तावदिदं ब्रूयात्
25
इरा वि ताव अम्हं, भिक्खं व बलिं व गिण्हह ण किंचि । एहि खु तारितो मी, गण्हह छंदेण जा अट्ठो ॥ ३३४७ ॥ इतरथाऽपि तावदस्माकं गृहे भिक्षां वा 'बलिं वा' देवतानिवेदनमुद्वरितं गृद्धीथ, अत इदानीं संसारसागरात् तारितोऽस्म्यहम्, अन्येनापि येन भवताम् 'अर्थः ' प्रयोजनं तद् भगवन्तः 'छन्देन' खेच्छया गृह्णीध्वम् ॥ ३३४७ ॥
Jain Education International
15
लहुगा अणुग्म्मी, अप्पत्तिग धम्मकंचुए गुरुगा । कडुग - फरुसं भणते, छम्मासा करभरे छेदो ॥। ३३४८ ॥
30
यद्येवं भद्रकोऽनुग्रहं मन्यते तदा चतुर्लघवः । अथ प्रान्तोऽसौ ततोऽप्रीतिकं कुर्यात् एते धर्मकञ्चुकप्रविष्टा लोकं मुष्णन्ति; एवमप्रीति के चतुर्गुरवः । अथासौ ' कटुक - परुषं ' ' चौरस्त्वम्,
२ हमि, अ तामा• ॥
For Private & Personal Use Only
www.jainelibrary.org