SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ .९३८ सनियुक्ति-लघुभाप्य-वृत्तिके बृहत्कल्पसूत्रे [उपाश्रयप्रकृते सूत्रम् २ अणुण्णवण अजतणाए, पउत्थ सागारिए घरे चेव । तेसि पि य चीयत्तं, सागारियवजियं जातं ॥ ३३३८॥ एवमयतनानुज्ञापनया तत्र तेषु स्थितेषु सागारिकश्चिन्तयति-'एते साधवस्तावद् मदीयं धान्यगृहं रक्षन्ति अतः कस्मादहं स्वजनादिकार्ये न गच्छामि ?' इति परिभाव्य कुत्रचिद् ग्रामादौ प्रवसति । प्रोषिते च तस्मिन् गृह एव वा निश्चिन्ततया धान्यानां व्यापारमवहमाने तेषामपि संयतानां प्रीतिकं भवति-साधु साधु सागारिकवर्जितं जातम् ॥ ३३३८ ॥ अस्या एव गाथायाः पूर्वार्द्ध व्याचष्टे तेसु ठिएसु पउत्थो, अच्छंतो वा वि ण वहती तत्ति । जति विय पविसितुकामो, तह वियण चएति अतिगंतु ॥३३३९॥ 10 'तेषु' संयतेषु तत्र स्थितेषु स सागारिको निश्चिन्ततया प्रोषितो गृहे वा तिष्ठन् धान्यानां 'तप्ति' व्यापारं न वहति । यद्वा धान्यं सम्भालयितुं यद्यप्यसौ तत्र प्रवेष्टुकामः तथापि 'नातिगन्तुं' न प्रवेष्टुं शक्नोति ॥ ३३३९ ॥ कुतः ? इति चेद् उच्यते संथारएहि य तहिं, समंततो आतिकिण्ण विइकिण्णं । सागारितो ण एती, दोसे य तहिं ण जाणाती ॥ ३३४०॥ 15 संस्तारकै: 'तत्र' उपाश्रये समन्ततः 'अतिकीण' परिपाट्या प्रसृतैर्मालितं 'व्यतिकीर्ण' तैरेवानानुपूर्व्या प्रसृतैर्याप्तं दृष्ट्वा सागारिकः 'नैति' नागच्छति, ततो ये तत्र धान्यपरिशटनादयो दोषास्तानसौ न जानीते ॥ ३३४० ॥ A गंता अनुज्ञापनाया अयतना । अथ संयतलक्षणस्वपक्षविषयामयतनामाह-~ ते तत्थ सण्णि विट्ठा, गहिया संथारगा जधिच्छाए । ___णाणादेसी साधू, कासइ चिंता सपुप्पण्णा ॥ ३३४१ ॥ 'ते' अगीतार्थाः 'तत्र' उपाश्रये 'सन्निविष्टाः' स्थिताः, यदृच्छया च तैस्तत्र संस्तारका गृहीताः, न गणावच्छेदिकेन यथारनाधिकं प्रदत्ता इति भावः, नानादेशीयाश्च तत्र साधवः, तेषां मध्ये "कासइ" ति कस्यचिद् मन्दधर्मणश्चिन्ता समुत्पन्ना ॥ ३३४१ ।। यथा अणुहूया धण्णरसा, णवरं मोत्तूण सेडगतिलाणं । 25 काहामि कोउहल्लं, पासुत्तेसुं समारद्धो ॥ ३३४२ ॥ अनुभूतास्तावदपरेषां धान्यानां रसाः, 'नवरं' केवलं "सेडंगतिलाणं" ति श्वेतकतिलानां रसं मुक्त्वा, अत एतद्विषयं 'कौतुकम्' अभिलाषं 'करिष्यामि' पूरयिष्यामीत्यर्थः । एवं विचिन्त्य शेषसाधुषु रात्रौ प्रसुप्तेषु समारब्धस्तान् तिलान् भक्षयितुम् ॥ ३३४२ ॥ ततश्च विगयम्मि कोउहल्ले, छठवतविराहण त्ति पडिगमणं । वेहाणस ओहाणे, गिलाण सेधेण वा दिह्रो ।। ३३४३ ॥ १ 'अतिकीर्णे' परिपाट्या प्रसृतैर्मालिते 'व्यतिकीणे' तैरेवानानुपूर्व्या [प्रसृतैः ] व्याप्ते सागारिक: भा०॥ २ - एतन्मध्यगतमबतरणं भा० नास्ति ॥ ३ "सेड़गतिला पंडरा' 30 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002513
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages444
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy