________________
भाष्यगाधाः ३३६-३७/
इदमेवाह
द्वितीयः ।
निउणो खलु सुत्तस्थो, ण हु को अपडिबोधितो पाउं । ते सुह तत्थ दोसा, जे तेसिं तहिं वसंताणं ॥ ३३३३ ॥ 'निपुण:' सूक्ष्मः खलु सूत्रस्यार्थो भवति, जन एव न शक्योऽसावाचार्येणाप्रतिबोधितः सम्यक् परिज्ञातुम् अतोऽगीतार्थः सूत्रमात्रेण पठितेन न यतनामवबुध्यते, अतः 'तेषाम्' 5 अगीतार्थानां 'तत्र' बीजाकीणोंपाश्रये वसतां ये दोषा भवन्ति तान् शृणुत ॥ ३३३३ ॥ अगीयत्था खलु साहू, णवरिं दोसे गुणे अजाणता ।
afrared गामो, ठायंतऽह धण्णसालाएं ॥ ३३३४ ॥
गीतार्थाः खल; के ? 'साधवः' साधुक्रियासु उद्यताः 'नवरे' केवलं सदोपाया निर्दोषाया वा वसतेरनुज्ञापने दोषान् गुणांश्चाजानन्तः कापि याये मैक्षं प्रभूतं लब्ध्वा भिक्षया ' रमणीयोऽयं 10 ग्रामः' इति कृत्वा 'अथ' अनन्तरं धान्यशालायां तिष्ठन्ति ।। ३३३४ ॥ इदमेव स्पष्टतरमाहरमणि भिक्ख गामो, ठायामों इहेव वसहि झोसेह । धण्णघराणुण्णवणा, जति रक्खह देगु तो भंते ! ।। ३३३५ ।। कविदगीतार्थगच्छ ग्रामानुग्रामिकं विहरन् कमपि ग्रामं सम्प्राप्तः । तत्र बहिर्देवकुलादौ स्थित्वा भिक्षों पर्यटन् प्रभूतम् इष्टं च भैक्षं लब्धवान् । ततस्तैः साधुभिः परस्परमुक्तम् — रम- 15 योऽयं ग्रामः अत इहैव मासकल्पं तिष्ठामः परं वसतिरद्यापि न गवेषिता अतस्तां "झोसेह" ति देशीवचनत्वाद् गवेषयत । ततस्तैर्वसतिं प्रत्युपेक्षमाणैः कस्याप्यगारिणो धान्यगृहं दृष्टम्, ततस्तस्यानुज्ञापना कृता । गृहपतिः प्राह – यदि नदन्त ! सदीयं धान्यगृहं तस्कर - गवादिभिरुपद्र्यमाणं रक्षत ततोऽहं प्रयच्छामि नान्यथा ॥ २३३५ ॥ अपि चकरेमों व पवसामो ।
९३७
वसही रक्खणवग्गा, कस्मं न
पिचितो होहि तुमं, अम्हे रति पि जग्गामो || ३३३६ ॥
वयमस्या वसतेः - धान्यशालारूपाया रक्षणे व्याः सन्तः कृप्यादिकं कर्मापि न कुर्महे, न च सुहृदादिभिरामन्त्रिताः क्वापि विवाहादौ कार्ये ग्रामान्तरे प्रवसामः । ततस्तेऽगीतार्थी वसत्यनुज्ञापनाविधिमजानन्तो ब्रुवते - निश्चिन्तस्त्वमत्रार्थे भव, वयं रात्रिमपि महरकेण जागरिष्यामः।। ३३३६॥ जोतिस - निमित्तमादी, छंद जयिं व अम्ह साधेत्था । अक्रमादी डिंभे, गाधेस्सह अजतणा सुणणे || ३३३७ ॥
ज्योतिषं निमित्तम् आदिशब्दादन्यदपि गन्धर्व विद्यादिकं तथा छन्दःशास्त्रं गणितशास्त्रं वा यद्यस्माकं कथयिष्यथ, अक्षराणि नाम - लिपिविज्ञानं तद् आदिशब्दाद् व्याकरणादिकं वा यद्यस्माकं 'डिम्भानि' बालकानि ग्राहयिप्यथ ततस्तिष्ठन्तु भवन्त इति । एवं वसतिस्वामिनोक्ते सति यदि तेऽगीतार्थास्तत् प्रतिशृण्वन्ति' 'आमम्, कथयिष्यामो ग्राहयिष्यामो वा' इत्यनुमन्यन्ते 30. ततोऽनुज्ञापनाया अयतना कृता भवति ।। ३३३७ ॥ तत्र चामी दोषाः
Jain Education International
१ मो० ले० विनाऽन्यत्र - क्रियासु यताः त० डे० । क्रियायामुद्यताः ताटी० भा० कां० ॥ २ 'क्षार्थं पर्य° डे० ॥
For Private & Personal Use Only
20
25.
www.jainelibrary.org