________________
सनियुक्ति-लघुमा-य-वृत्तिका कन्या उपाश्रय प्रकृते सूत्रम् । प्रलापिना सा भविष्यतीति भावः ॥ ३३२९ ॥ सूरिराह---
ण वि किंचि अणुण्णायं, पडिसिद्धं वा वि जिणवरिंदेहि ।
एसा तेसिं आणा, कजे सच्चेण होतव्यं ।। ३३३० ॥ हे नोदक ! यदेतद् भवता मलपितं तत् प्रवचनरहस्यानभिज्ञतासूचकम् , यतो जिनवरेन्द्रैस्तथाविधकारणाभावे नापि 'किञ्चिद' अकल्पनीयमनुज्ञातम् , कारणे च समुत्पन्ने नापि किञ्चित् प्रतिषिद्धम् , किन्तु एषा 'तेषां' तीर्थकृतां निश्चय-व्यवहारनयद्वयाश्रिता सम्यगाज्ञा मन्तव्यायदुत कार्ये' ज्ञानादावालम्बने ‘सत्येन' सद्भावसारेण साधुना भवितव्यम् , न मातृस्थानतो यत्किञ्चिदालम्बनीयमित्यर्थः । अथवा सत्यं नाम-संयमः तेन कार्ये समुत्पन्ने भवितव्यम् , यथा यथा संयम उत्सर्पति तथा तथा कर्तव्यमिति भावः । आह च वृहद्भाष्यकार:
कजं नाणादीयं, सच्चं पुण होइ संजमो नियमा ।
जह जह सो होइ थिरो, तह तह कायधयं होइ ॥ ॥३३३० ॥ इदमेव भावयति
दोसा जेण निरुभंति जैण खिजंति पुनकम्माई ।
__सो सो मोक्खोवाओ, रोगावत्थासु समणं वा ॥ ३३३१ ॥ 15 'येन' अनुष्ठानविशेषेण 'दोषाः' रागादयो निरुध्यन्ते, पूर्वोपचितानि च कर्माणि येन
क्षीयन्ते, ‘स सः' अनुष्ठानविशेषो मोक्षोपायो ज्ञातव्यः । 'रोगावस्थासु' ज्वरादिरोगप्रकारेषु 'शमनमिव' उचितौषधप्रदानापथ्यपरिहाराद्यनुष्ठानमिव; यथा तेन विधीयमानेन ज्वरादिरोगः क्षयमुपगच्छति, एवमुत्सर्गे उत्सर्गमपवादेऽपवादं समाचरतो रागादयो दोषा निरुध्यन्ते पूर्वकर्माणि च क्षीयन्ते । अथवा यथा कस्यापि रोगिणः पथ्यौषधादिकं प्रतिषिध्यते कस्यापि पुन20 स्तदेवानुज्ञायते, एवमत्रापि यः समर्थस्तस्याकल्प्यं प्रतिषिध्यतेऽसमर्थस्य तु तदेवानुज्ञायते । उक्तञ्च भिषग्वरशास्त्रे
उत्पद्येत हि साऽवस्था, देश-काला-ऽऽमयान् प्रति ।
यस्यामकार्य कार्य स्यात् , कर्म कार्य च वर्जयेत् ।। ३३३१ ।। एवंविधं चोत्सर्गा-ऽपवादविभागमगीतार्थो न जानाति अत:25
अग्गीयस्स न कप्पइ, तिविहं जयणं तु सो न जाणाइ । ___अणुन्नवणाए जयणं, सपक्ख-परपक्वजयणं च ।। ३३३२॥ अगीतार्थस्य प्रस्तुतसूत्र विषयभूतं वस्तुं न कल्पते, यतोऽसौ त्रिविधां यतनां न जानीते । तद्यथा-अनुज्ञापनायतनां खपक्षयतनां परपक्षयतनां चेति । तिस्रोऽप्येता वक्ष्यमाणखरूपाः ।
परः ग्राह-अगीतार्थेनापि तावत् सूत्रमधीतम् अतः कथमसौ न जानीते ? उच्यते-इह 30 सर्वेषामप्यागमानामर्थपरिज्ञानमाचार्यसहायकादेवोपजायते, न यथाकथञ्चित् । उक्तञ्च
सत्स्वपि फलेषु यद्वन्न ददाति फलान्यकम्पितो वृक्षः । तद्वत् सूत्रमपि बुधैरकम्पितं नार्थवद् भवति ॥
॥ ३३३२॥ ____ २ °स्य बीजाकीर्णे उपाश्रये वस्तुं का० ॥
१वताभा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org