________________
भाष्यगाथाः ३३२३-२९] द्वितीय उद्देशः ।
९३५ एवमत्रापि यत्र देशग्रहणं तत्रावशेषाण्यर्थपदानि, सूचितं सूचा, भावे क्तप्रत्ययः, तद्वशेनावगन्तव्यानि । तथा कुत्रापि सूत्रेऽनुयोगधराः 'अधिकार' प्रस्तुतार्थ मुक्त्वा सूत्रानुपाति प्रसङ्गागतमर्थ प्रथमतः प्रभाषन्ते, यथा पिण्डाधिकारे प्रस्तुते
"पुढवी आउकाए, तेऊ वाऊ वणस्सई चेव ।
बिइ तिय चउरो पंचिंदिया य लेवो दसमओ अ॥" (गा० ३३६) इत्यादिनौपनियुक्तौ सविस्तरं कायप्ररूपणा कृता । एवं विचित्राणि सूत्राणि भवन्ति, अत एव यावदमीषामर्थः सूरिणा न व्यक्तीकृतस्तावन्न सम्यगवगमपथमुपगच्छति ॥ ३३२५ ॥ अथौत्सर्गिका-ऽऽपवादिकसूत्रयोविषयविभागमाह
उस्सग्गेणं भणियाणि जाणि अववादतो तु जाणि भवे ।
कारणजातेण मुणी!, सव्वाणि वि जाणितव्याणि ॥ ३३२६॥ 10 उत्सर्गेण यानि सूत्राणि भणितानि यानि चापवादतः सूत्राणि तानि हे मुने ! कारणजातेन सर्वाण्यपि ज्ञातव्यानि । किमुक्तं भवति ?-प्रतिषिद्धस्य आचरणहेतुः कारणम्, तच्च ज्ञानादि, तत्र चोत्सर्गसूत्रेषु साक्षादुत्सर्ग विषयो निबन्धः, अर्थतस्तु कारणजाते तत्राप्यनुज्ञा मन्तव्या; अपवादसूत्रेषु पुनः कारणजातमुद्दिश्य साक्षादपवादविषयो निबन्धः, अर्थतस्तु तत्राप्युत्सर्गो . द्रष्टव्यः । एवं सर्वसूत्रेषु तत्त्वत उत्सर्गा-ऽपवादावुभावपि निबद्धाववगन्तव्यौ ॥ ३३२६ ॥15 अथ किं पुनरनयोः स्वस्थानम् ? इत्याह---
उस्सग्गेण निसिद्धाइँ जाइँ दव्वाइँ संथरे मुणिणो।
कारणजाते जाते, सव्याणि वि ताणि कप्पंति ॥ ३३२७ ॥ 'उत्सर्गेण संस्सरणमाश्रित्य यानि 'द्रव्याणि' प्रलम्बादीनि 'मुनेः' संयतस्य प्रतिषिद्धानि तान्येव 'कारणजाते' विशुद्धालम्बनप्रकारे 'जाते' समुत्पन्ने सति सर्वाण्यपि कल्पन्ते ॥३३२७।। 20 अत्र परः प्रश्नयति
'जं चिय पए णिसिद्धं, तं चिय जति भूतों कप्पती तस्स ।
एवं होतऽणवत्था, ण य तित्थं व सच्चं तु ॥ ३३२८॥ 'यदेव' प्रलम्बादिकं 'प्राक्' पूर्व निषिद्धं तदेव यदि 'भूयः' पुनरपि तस्य' साधोः कल्पते, तत एवं सूत्रार्थस्य यदृच्छाप्रवृत्तौ चरण-करणस्यानवस्था भवति । ततश्च न तीर्थमनुस(ष)जति, 25 नैव च प्रतिषिद्धं समाचरतः 'सत्यं' संयमो भवति, तदभावे दीक्षा निरर्थिका, तन्निरर्थकतायां मोक्षस्याप्यभावः प्रामोति ॥ ३३२८ ॥ अपि च
उम्मत्तवायसरिसं, खुदंसणं ण वि य कप्पऽकप्पं तु ।
अध ते एवं सिद्धी, ण होज सिद्धी उ कस्सेवं ॥ ३३२९ ॥ आचार्य ! पूर्वमेकत्र सूत्रे प्रतिषिय पुनखदेवानुजानत इदं भवतो दर्शनमुन्मत्तवाक्यसदृशं 30 प्रामोति, तथा नापि च 'इदं कल्प्यम् , इदमकल्प्यम्' इति व्यवस्था भवति, यदि चैवमपि ब्रुवतस्तवाभिप्रेतार्थसिद्धिर्भवति तहिं कस्य न सा भवेत् ? चरक-परिव्राजकादीनामप्यसमञ्जस१शानुग भा० ॥ २ जंपि य भा० ॥ ३ यद्यपि प्र° भा॥
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org