SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ ९३४ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [उपाश्रयप्रकृते सूत्रम् २ देशग्रहणे कृते सति तज्जातीयानां सर्वेषामपि ग्रहणं भवति, यथा-"सालीणि वा वीहीणि वा" इत्यादावस्मिन्नेव सूत्रे बीजैहीतैर्मूलादयोऽपि भेदाः सूचिता भवन्ति । कुत्रापि च सूत्रे निरवशेषाण्यभिधेयपदानि गृह्यन्ते, यथा दशवकालिके क्रोधादयोऽनिगृहीताः सन्तः ‘भव' संसारं 'निरवशेष' चतुर्गतिकमपि सिञ्चन्तीत्युक्तम् । तथा च तत्सूत्रम्___ कोहो य माणो य अणिग्गहीया, माया य लोभो अ पवडमाणा । चत्तारि एए कसिणा कसाया, सिंचंति मूलाइ पुणब्भवस्स ॥ (अध्य० ८ श्लो० ४०) ॥ ३३२२ ॥ १ अथोत्क्रम-क्रमयुक्तानि सूत्राणि दर्शयति-- सत्थपरिणादुक्कमें, गोयर पिंडेसणा कमेणं तु । जंपि य उक्कमकरणं, तमभिणवधम्ममादऽट्ठा ॥ ३३२३ ॥ शस्त्रपरिज्ञाध्ययने तेजःकायोद्देशकानन्तरं वायुकायोद्देशकः क्रमप्राप्तोऽपि नोक्तः, किन्तु वनस्पति-त्रसकायोदेशको प्ररूप्य पर्यन्तेऽसौ भणितः, एवमादिकमुत्क्रमयुक्तं सूत्रमुच्यते ।। __ क्वचित्तु सूत्रे क्रमेणैवार्थपदानि भवन्ति, यथा-अष्टौ गोचरभूमयः, तद्यथा-"पेडा अद्धपेडा गोमुत्तिया पतंगवीहिया अंतोसंवुका बाहिंसंवुक्का उजुगी गंतुंपञ्चागता" 15 तथा सप्तपिण्डैषणासूत्रमपि क्रमनिबद्धं मन्तव्यम् । तद्यथा--"असंसठ्ठा संसट्ठा उद्धडा अप्पलेवा उग्गहिता पग्गहिता उज्झितधम्मिया ।" ___ अथवा 'पिण्डैषणा' इति प्रथमं पिण्डपदं तत एषणापदं यत्र ओपनियुक्त्यादौ सूत्रे यथाक्रम प्ररूप्यते तत् क्रमनिबद्धम् ।। यदपि चोत्क्रमकरणं शस्त्रपरिज्ञादावध्ययने तदभिनवधर्माद्यर्थम् । किमुक्तं भवति ?-अभि20 नवधर्मा शैक्षः, स ह्यद्याप्यपरिणतजिनवचनतया वायुकायं परिस्फुटमनुपलभ्यमानतया प्रथमतः प्ररूप्यमाणं न सम्यक् प्रतिपद्यते, अतो वनस्पति-त्रसान् प्ररूप्य यदा तेषु सम्यग् जीवत्वं प्रतिपन्नस्तदा वायुकायं जीवत्वेन प्ररूप्यमाणं सुखेनैव श्रद्धत्ते, एवमादिभिः कारणैरुत्क्रमकरणं मन्तव्यम् ॥३३२३॥ अथ "बीएहि सूइया मूलमाइणो" (गा० ३३२२) त्ति पदं व्याचष्टे वीएहि कंदमादी', वि सूयिया तेहिं सव्व वणकाओ। भोम्मादिगा वणेण तु, सभेद सारोवणा भणिता ॥ ३३२४ ॥ इहैव सूत्रे बीजैगृहीतैः कन्द-मूलादयोऽपि भेदाः सूचिताः, तेष्वपि तिष्ठतः प्रायश्चित्तं भवतीति भावः । 'तैश्च' कन्दादिभिः सर्वोऽपि वनस्पतिकायः' परीत्ता-ऽनन्तभेदभिन्नः सूचितः । 'वनेन तु' वनम्पतिना 'भीमादयः' पृथिव्यप्कायादयः कायाः सूचिताः । एवं 'सभेदाः' भेदप्रभेदसहिताः पडपि कायाः 'सारोपणाः' सप्रायश्चित्ता भणिता अवसातव्याः ॥ ३३२४ ।। जत्थ उ देसग्गहणं, तथंऽवसेसाइं सूइयवसेणं ।। मोत्तूणं अहिगारं, अणुयोगधरा पेभासंति ॥ ३३२५ ॥ १ एतन्मध्यगतमवतरणं भा० नास्ति ॥ २°दी, तु सू तामा०॥ ३ सूचिताः। तैश्च सर्वोऽपि भा० ॥ ४थ वि सेसाई तामा० ॥ ५ पसासंति तामा०॥ 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002513
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages444
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy