________________
९३३
10
भाष्यगाथाः ३३१६-२२ द्वितीय उद्देशः ।
उस्सग्ग गोयरम्मी, निसेज कप्पाऽववादतो तिहं ।
मंसं दल मा अट्ठी, अववादुस्सग्गियं सुत्तं ॥ ३३१९ ॥ उत्सर्गसूत्रं गोचरं पर्यटतः साधोहद्वयापान्तराले या 'निषद्या' निषदनं तद्विषयम् ।. तच्चेदम्-"नो कप्पइ निगंथाण वा निग्गीण वा अंतरगिइंसि आसइत्तए वा जाव काउस्सग्गं वा ठाणं वा ठाइत्तए ( उ० ३ सू० २२ ) त्ति ।" __यत्तु 'त्रयाणां' जराभिभूतादीनां निषद्या कल्पते इत्येवंलक्षणं सूत्रं तदापवादिकम् । तच्चदम्"अह पुण एवं जाणिज्जा जराजुण्णे १ वाहिए २ तवस्सी ३ मुच्छिन्न वा पवडिज वा एवण्हं कप्पइ अंतरगिहंसि आसइत्तए ।" ( उ० ३ सूत्र ३२) इदं पुनरपवादौत्सर्गिकम् -''मंसं दल मा अट्टि" त्ति पुद्गलं प्रयच्छ मा अस्थीनीति ॥३३१९॥
नो कप्पति व अभिन्नं, अववातेणं तु कप्पती भिन्नं ।
कप्पति पकं भिण्णं, विधीय अववायउस्सग्गं ॥ ३३२० ॥ "नो कल्पतेऽभिन्नमामप्रलम्बं प्रतिग्रहीतुम्” (उ० १ सू० १) एतद्वा उत्सर्गसूत्रम् ।
यत् पुनः 'अपवादपदेन' अध्वा-ऽवमौदर्यादिषु भिन्न प्रतिग्रहीतुं कल्पते इत्येवंरूपं (उ०१ सू० २) तदापवादिकम् ।
यत् पुनः “निर्ग्रन्थीनां कल्पते पक्कं प्रलम्बं विधिभिन्नं नाविधिभिन्नम्" ( उ० १ सू०५)15 इति सूत्रं तदपवादौत्सर्गिकम् । एतत् प्रागुक्तमपि स्पष्टीकरणार्थमिहाभिहितम् । - इदं त्वौत्सर्गापवादिकम् --"नो कप्पइ० राओ वा वियाले वा सेजा-संथारयं पडिगाहित्तए । नऽन्नत्थ एगेणं पुवपडिलेहिएणं सिजा-संथारएणं ( उ० १ सू० ४३)।
इदं पुनरुत्सर्गौत्सर्गिकम् -"नो कप्पइ० असणं वो एक पढमाए पोरिसीए पडिगाहित्ता पच्छिमं पोरिसिं उवाइणावेत्तए । से य आहच उवाइणाविए सिया, जो तं भुंजइ भुंजंत 20 वा साइजइ से आवज्जइ चाउम्मासियं परिहारट्टाणं उग्याइयं (उ० ४ सू० ११)। ___ तथा येषु सूत्रेष्वपवादो भणितस्तेष्वेवार्थतः पुनरनुज्ञा प्रवर्तते तान्यपवादापवादिकानि ॥ ३३२० ।। किश्चान्यत्
कत्थइ देसग्गहणं, कत्थति भण्णंति णिरवसेसाई ।
उक्कम-कमजुत्ताई, कारणवसतो णिजुत्ताई ॥ ३३२१॥ कचित् सूत्रेऽभिधेयपदानां देशतो ग्रहणं क्रियते, कुत्रापि च निरवशेषाण्यभिधेयपदानि भण्यन्ते, तथा कानिचित् सूत्राण्युत्क्रमयुक्तानि, कानिचित्तु क्रमयुक्तानि 'कारणवशतः' कारणविशेषमाश्रित्य 'नियुक्तानि' गणधरादिभिः श्रुतधरैर्विरचितानि ॥ ३३२१ ।। एतदेव विवृणोति
देसग्गहणे बीएहि सूयिया मूलमादिणो हुंति ।
कोहादिअणिग्गहिया, सिंचंति भवं निरवसेसं ॥ ३३२२ ॥ १ "भभिकंखसि मे दाउं जावइयं तावइयं पुग्गलं दलयाहि, मा य अट्ठियाणि" इतिरूपं सूत्रं आचाराङ्गे 'भु०२चू० १ अ० १० १०॥
२वाक पढत. डे.॥...
25
___ 30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org