________________
९३२
मनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे | उपाश्रयप्रकृते सूत्रम् २ तदुभयसुत्तं किंची, सुत्तस्स गमा मुणेयव्या ॥ ३३१६ ॥ किञ्चिदुत्सर्गसूत्रम् १, किञ्चित् पुनरापवादिकं सूत्रम् २, किञ्चित् तदुभयसूत्रम् , तच्च द्विधाउत्सर्गापवादिकम् अपवादौत्सर्गिकम् ३-४ । एते सूत्रस्य 'गमाः' प्रकाराश्चत्वारो ज्ञातव्याः ।
अथवा 'गमा नाम' द्विरुच्चारणीयानि पदानि । तद्यथा--- उत्सर्गोत्सर्गिकम् ५ अपवादापयादि5 कम् ६ एवमेतो द्वौ भेदौ चत्वारश्च प्रागुक्ता इत्येवं मूत्रस्य पड् भेदाः सञ्जाताः । एते च पुरस्तादुदाहरिष्यन्ते ।। ३३१६ ॥ अन्येऽपि च सूत्रस्य भेदा भवन्तीति दर्शयति-»
__णेगेसु एगगहणं, सलोम णिल्लोम अकसिणे अइणे ।
विहिभिन्नस्स य गहणं, अववाउस्सग्गियं सुत्तं ॥ ३३१७ ॥ 'अनेकेषु' कषायेन्द्रिया-ऽऽश्रवादिष्वर्थेषु ग्रहीतव्येषु कापि सूत्रे एकस्य-अन्यतरस्य ग्रहणं 10 भवेत् , यथा-यत्र सूत्रे क्रोधनिग्रहः साक्षादुपदिष्टस्तत्र माननिग्रहादयोऽप्यर्थत उक्ता द्रष्टव्याः । एवमिन्द्रिया-ऽऽश्रवादिष्वपि भावनीयम् ।
कानिचित्तु सूत्राणि साधूनां साध्वीनां च प्रत्येकविषयाणि । यथेहैव कल्पाध्ययने सलोमसूत्रं निर्लोमसूत्रं वा । तद्यथा-"नो कप्पइ निगंथाणं अलोमाइं चम्माइं धारितए
)। कप्पइ निग्गंथाणं सलोमाइं चम्माइं धारित्तए ( उ० ३ सू० ४)। नो ४ कप्पइ निग्गंथीणं सलोमाइं चम्माइं धारित्तए । ( उ० ३ सू० ३) । कप्पइ निगंथीणं अलोमाई चम्माइं धारित्तए ( )"
कानिचित्तु सामान्यसूत्राणि भवन्ति, यथा अकृत्स्नाजिनविषयं सूत्रम् । तच्चेदम्-"कप्पइ निग्गंथाण वा निगंथीण वा अकसिणाई चम्माइं धारित्तए" (उ० ३ सू० ६)।
अथ "अनानुपूर्यपि व्याख्यानम्” इति न्यायोपदर्शनार्थ प्रागुक्तसूत्रषट्कमध्यात् चतु20 र्थभेदमुदाहरति-"विहिभिन्नम्स य" इत्यादि । इहैव ग्रन्थे यद् विधिभिन्नस्य ग्रहणमुक्तं तदपवादौत्सर्गिकं सूत्रम् । तच्चेदम् - "कप्पइ निग्गंथीणं पक्के तालपलंबे भिन्ने पडिगाहित्तए, से वि य विहिभिन्ने नो चेव णं अविहिभिन्ने” ( उ० १ सू० ५) ॥ ३३१७ ॥ ___ आह यद्यपवादेनानुज्ञातं तर्हि भूयः कथं प्रतिषिध्यते ? इत्याह
उस्सग्गठिई सुद्धं, जम्हा दव्वं विवजयं लभति । __ण य तं होइ विरुद्धं, एमेव इमं पि पासामो ॥ ३३१८ ॥ 'उत्सर्गस्थितौ' उत्सर्गपदे 'शुद्धम्' उद्गमादिदोषरहितं यद् भक्त-पानादिद्रव्यं ग्रहीतुं कल्पते तदेवापवादपदे यस्माद् ‘विपर्यय' वैपरीत्यं लभते, अशुद्धमप्युपादातुं कल्पते इत्यर्थः । 'न च' नैव तत् तथा गृह्यमाणं विरुद्धं भवति, ज्ञानादिगुणोपकारकत्वादविरुद्धमेवेति भावः ।
एवमेव 'अमुमपि' प्रकृतमर्थ “कल्पते निर्ग्रन्थीनां पकं तालप्रलम्बं भिन्नं प्रतिग्रहीतुम्" (उ०१ 30 सू० ५) इत्यपवादेनानुज्ञातस्याप्यविधिभिन्नप्रतिषेधरूपमविरुद्धमेव पश्यामः ॥ ३३१८ ॥
अथोत्सर्गसूत्रादीनामुदाहरणान्याह१°वमेते सूत्रस्य भा०॥ २ » एतदन्तर्गतमवतरणं भा० नास्ति । ३°ाऽपि व्याख्यानम्" इति भा० कां० विना ॥
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org