________________
भाष्यगाथाः ३३१०-१६] द्वितीय उद्देशः । संश्रितानि, भित्तिनिश्रया स्थापितानीत्यर्थः । अथ कुड्य-भित्त्योः कः प्रतिविशेषः ? उच्यतेइष्टकादिरचिता भित्तिः, मृत्पिण्डादिनिर्मितं कुड्यम् ॥ ३३११ ॥
छारेण लंछिताइं, मुद्दा पुण छाणपाणियं दिण्णं ।
परिकल्लाई करेत्ता, किलिंजकडएहिँ पिहिताई ॥ ३३१२ ॥ लाञ्छितानि नाम 'क्षारेण' भस्मना चिहितानि । तथा मुद्रा पुनः छगणपानीयं तद् यत्र 3 प्रदत्तं तानि मुद्रितानि । “परिकलाई" ति यानि नापि लाञ्छितानि नापि मुद्रितानि किन्तु तदुभयप्रकारबाह्यानि कृत्वा विवक्षितप्रदेशे स्थापयित्वा किलिञ्जकटैरेवमेव स्थगितानि तानि पिहितान्युच्यन्ते । एवंविधेषु बीजेषु हेमन्त-ग्रीष्मयोगीतार्थस्य वस्तुं कल्पते नागीतार्थस्येति ॥ ३३१२ ॥ परः प्रेरयति
नत्थि अगीतत्थो वा, सुत्ते गीतो व वणितो कोइ ।
जा पुण एगाणुण्णा, सा सेच्छा कारणं किं वा ॥ ३३१३ ॥ सूत्रे अगीतार्थो वा गीतार्थो वा न कश्चिद् निर्झर्य 'वर्णितः' निर्दिष्टोऽस्ति, अतो येयं भवद्भिः एकस्य-गीतार्थपक्षस्यानुज्ञा अपरस्यागीतार्थपक्षस्य प्रतिषेधः क्रियते सैषा युष्माकं व्याख्यातृणां खेच्छा, न पुनर्भगवदुक्तमिति भावः । अथ कारणं किमप्यत्रास्ति ततोऽभिधीयताम् ॥ ३३१३ ॥ सूरिराह
15 एयारिसम्मि वासो, ण कप्पती जति वि सुत्तऽणुण्णातो।
अन्वोकडो उ भणितो, आयरिओं उवेहती अत्थं ॥ ३३१४ ॥ 'एतादृशे' उपाश्रये वासो यद्यपि सूत्रेऽनुज्ञातस्तथापि न कल्पते, यतः 'अव्याकृतः' अविशेषित एवार्थः सूत्रे भणितः, परमाचार्यस्तमर्थम् 'उत्प्रेक्षते' विषय विभागप्रकटनेनोन्मीलयति । यथा किलैकस्माद् मृत्तिण्डात् कुलालोऽनेकानि घट-शरावादिरूपाणि निष्पादयति, एवमाचा- 20 योऽप्येकस्मात् सूत्रपदादभ्यूह्यानेकेषामर्थविकल्पानामुपदर्शनं करोति । यथा वा सान्धकारे गृहादौ विद्यमाना अपि घटादयः पदार्थाः प्रदीपं विना न विलोक्यन्ते, तथा सूत्रेऽप्यर्थविशेषा आचार्येणाप्रकाशिताः सन्तोऽपि नोपलभ्यन्ते ।। ३३१४ ॥ किञ्च- .
जंजह सुत्ते भणितं, तहेव तं जइ वियालणा नत्थि ।
किं कालियाणुओगो, दिट्ठो दिटिप्पहाणेहिं ॥ ३३१५॥ 25 'यद्' वस्तु 'यथा' येन विधिरूपेण प्रतिषेधरूपेण वा प्रकारेण सूत्रे भणितं तत् तथैव यदि प्रतिपत्तव्यं 'विचारणा' विषयविभागव्यवस्थापना युक्ता-ऽयुक्तविमर्शो वा 'नास्ति' न क्रियते ततः 'किं' केन हेतुना कालिकश्रुतस्यानुयोगः 'दृष्टः' विधेयतयोपलव्धः 'दृष्टिप्र. धानैः' केवलज्ञान-श्रुतज्ञानरूपलोचनप्रवरैस्तीर्थकर-गणधरैः ?; अथवा 'दृष्टिप्रधानैः' नैगमादिनयमतविशारदैः श्रीभद्रबाहुस्वामिभिः किमिति नियुक्तिकरणद्वारेण कालिकश्रुतानुयोगो 30 'दृष्टः' प्रतिपादितः? ॥ ३३१५ ।। अपि च
उस्सग्गसुतं किंची, किंची अववातियं भवे सुत्तं । १ पक्खिल्लाई ताभा० ॥
२ "पक्खिलाई" का० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org