________________
१३.०२
सनिर्युक्ति-लघुभाष्य-वृचिके बृहत्कल्पसूत्रे [ अवग्रह ० प्रकृते सूत्रम् ३१
निन्द्रं च क्षेत्रं मन्तव्यम् ॥ ४८५२ ॥ अथाचलमैन्द्रं क्षेत्रमाहइंदक्खीलमणोग्गहों, जत्थ य राया जहिं च पंच इमे । सेट्ठि अमच्च पुरोहिय, सेणावति सत्थवाहे य ॥ ४८५३ ॥ इन्द्रकीलको नाम - इन्द्रस्थूणा सा यत्रोत्तिष्ठते इन्द्रमातृका वा तत्र 'अनवग्रहः' अवग्रहो 6 न भवति । अनिन्द्रकीलकेऽपि यत्र राजा मूर्धाभिषिक्तः परिवसति । राजरहितेऽपि यत्रेमे पञ्च वसन्ति - श्रेष्ठी अमात्यः पुरोहितः सेनापतिः सार्थवाहश्चेति ॥ ४८५३ ॥ अद्धाणसीसए वा, समोसरणें वा वि ण्हाण अणुयाणे ।
एतेसु णत्थि उग्गहों, वहीए मग्गण अखेत्ते ॥ ४८५४ ॥
अध्वशीर्षकं नाम-यतः परं समुदायेन गन्तव्यं सम्यग् मार्गावहनात् तत्र मिलितानाम्, 10 समवसरणं नाम-कुलसमवायो गणसमवायः सङ्घसमवायो वा [ तत्र मिलितानाम्, ] स्नानम्अर्हत्प्रतिमास्त्रपनं तन्निमित्तमेकत्र मिलितानाम्, अनुयानं - रथयात्रा तत्र वा मिलितानाम्, एतेषु नास्त्यवग्रहः । अत एवाक्षेत्रतया एतेषु वसताववग्रहस्य मार्गणा कर्त्तव्या ॥ ४८५४ ॥ अथ किमर्थमेतेष्ववग्रहो न भवति ! इत्युच्यते
15
20
बहुजणसमागमो तेसु होति बहुगच्छसन्निवातो य ।
मा पुब्वं तु तदट्ठा, पेल्लेज अकोविया खेत्तं ॥ ४८५५ ॥
‘तेषु' इन्द्रकीलकादिषु बहोः - प्रभूतस्य जनस्य समागमो भवति, अध्वशीर्षकादिषु च बहूनां गच्छानां सन्निपातः-मीलको भवति, अतः केचिदकोविदाः 'तदर्थ' 'क्षेत्रमिदमस्माकमेवाभाव्यं भवतु' इति कृत्वा 'पूर्वम्' अन्येभ्यः प्रथमं समागत्य मा क्षेत्रं प्रेरयेयुः इत्येतेषु नावग्रहो - धिक्रियते ॥ ४८५५ ।। इदमेव भावयति -
सड्डा दलंता उवहिं निसिद्धा, सिट्ठे रहस्सम्मि करेज मनुं ।
1
पभावयंते य ण मच्छरेणं, तित्थं सलद्धी दुहतो वि हाणी ।। ४८५६ । तत्रेन्द्रकीलादौ श्राद्धाः केषाञ्चिदाचार्याणां 'उपधिम्' वस्त्राद्युपकरणं दातुं लग्नाः, तैश्व 'न वर्ततेऽस्माकमिदं ग्रहीतुम्' इति भणित्वा ते निषिद्धाः; ततः श्राद्धाः पृच्छेयुः - एषणीयान्यप्यमूनि वस्त्राणि किमिति न कल्पन्ते ; ततो रहस्यम् - ' नास्माकममूनि आभवन्ति' इतिलक्षणं तेषां 25 पुरतः कथयितव्यम्, तत्र च 'शिष्टे' कथिते सति ते श्राद्धाः 'मन्युम्' अप्रीतिकं कुर्वीरन् । ये च ‘सलब्धयः' धर्मकथादिलब्धिसम्पन्नास्ते मत्सरेण 'वयं किमपि तावद् न लप्स्यामहे अतः किमर्थमेवमेव प्रयासं कुर्मः ?' इत्यनुशयेन तीर्थं धर्मकथादिना न प्रभावयन्ति । ततः "दुहतो वि हाणि " ति द्वयोरपि-सचित्ता - ऽचित्तलाभयोः परिहाणिर्भवति । तत्र सचित्तहानिः कोऽपि देश - विरतिं सर्वविरतिं वा न प्रतिपद्यते, अचित्तहानिराहार-वस्त्रादि तथाविधं न प्राप्यते । अत 30 एतेषु नावग्रहो भवति । वसतिं प्रतीत्य पुनरेतेष्वपि भवति ॥ ४८५६ ॥ कथम् ? इत्याहएगालयट्ठियाणं, तु मग्गणा दूरें मग्गणा नत्थि ।
आसणे तु ठियाणं, तत्थ इमा मग्गणा होइ ॥ ४८५७ ॥
-
१ 'लमिन्द्रयुक्तं क्षे' भा० ॥
Jain Education International
२°हीय पमग्ग' ताभा• ॥ ३ इति प्रतिषिद्धाः कां० ॥
For Private & Personal Use Only
www.jainelibrary.org