SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथाः ४८४६-५२ तृतीय उद्देशः । १३०१ 'तेन च ' वस्त्रादिना विना या परिहाणिः तन्निष्पन्नमपि तेषां प्रायश्चित्तम् ॥ ४८४९ ॥ इदमेव व्यक्तीकरोति — जे खेतिया मोति ण देति ठागं, लंभे वि जाऽऽगंतुवयंतें हाणी । पेति वाऽऽगंतु असंथरम्मि, चिरं व दोन्हं पि विराहणा उ ।। ४८५० ॥ ये 'क्षेत्रिका वयम्' इति कृत्वा भक्त पानादेः प्राचुर्येण लाभेऽपि अन्येषां “ठागं" अव 5 काशं न प्रयच्छन्ति तत आगन्तुकानां व्रजतां या परिहाणिस्तन्निष्पन्नं तेषां प्रायश्चित्तम् । अथ क्षेत्रिकाणामसंस्तरणेऽप्यागन्तुकाः 'प्रेरयन्ति' प्रेर्य तिष्ठन्ति ते चागन्तुका अदेशिकाः प्राघुणकाश्च ततः 'चिरं वा' प्रभूतं कालं वाशब्दाद् अल्पं वा कालमसंस्तरणं तेषां भवेत् ततः 'द्वयेषामपि' आगन्तुकानां वास्तव्यानां च या विराधना तन्निष्पन्नं प्रायश्चित्तम् ॥ ४८५० ॥ यत एवमतः --- 10 अस्थि हु वभग्गामा, कुदेसणगरोवमा सुहविहारा. । बहुगच्छ्रुवग्गहकरा, सीमच्छेदेण वसियव्वं ॥ ४८५१ ॥ 'सन्ति' विद्यन्ते वृषभग्रामाः । इहाचार्य आत्मद्वितीयो गणावच्छेदिक आत्मतृतीय एष पञ्चको गच्छो भवति, ईदृशास्त्रयो गच्छाः पञ्चदश जनाः, एते यत्र ऋतुबद्धे निर्वहन्ति; वर्षासु पुनः सप्तको गच्छः, तद्यथा - आचार्य आत्मतृतीयो गणावच्छेदिक आत्मचतुर्थः, 16 शास्त्रयो गच्छा एकविंशतिर्जना भवन्ति, एते यत्र वर्षावासे जघन्येन निर्वहन्ति ते वृषभग्रामा उच्यन्ते । ते च कीदृशाः ? इत्याह – कुदेशस्य यन्नगरं तेनोपमा येषां ते कुदेशनगरोपमाः, ते च ‘सुखविहाराः' सुलभभक्त-पाना निरुपद्रवाश्च, अत एव बहूनामनन्तरोकपमाणानां त्रिप्रभृतीनां गच्छानामुपग्रहकराः, ततस्तेषु सीमाच्छेदेन बहुभिरपि गच्छैर्वस्तव्यम्, न कोsपि परस्परं मत्सरो विधेय इति भावः । सीमाच्छेदो नाम - साहिका - ग्रामार्ध वाटकादि - 20 विभजनम् । यथा--- अस्यां साहिकायां भवद्भिः पर्यटनीयम् अस्यां पुनरस्माभिरित्यादि । यद्वा ये तत्र क्षेत्रे समकं प्राप्तास्तैः सीमाच्छेदेन वस्तव्यम् । यथा - युष्माकं सचित्तमस्माकमचित्तम्, अथवा युष्माकमन्तः अस्माकं बहिः, युष्माकं स्त्रियः अस्माकं पुरुषाः, युष्माकं श्राद्धाः अस्माकमश्राद्धाः, अथवा यो यद् लप्स्यते तस्यैव तद् आभाव्यम् ॥ ४८५१ ॥ इदमेव व्याख्यानयतिएकवीस जहणेणं, पुन्वट्ठितें उग्गहो इतरें भत्तं । पल्ली पडिवस वा, सीमाए अंतरा गामो ॥ ४८५२ ।। पूर्वोक्तनीत्या वर्षासु एकविंशतिर्जनाः उपलक्षणत्वाद् ऋतुबद्धे पञ्चदश जना यत्र जघन्येन संस्तरन्ति स वृषभग्राम उच्यते, उत्कर्षतस्तु द्वयोरपि कालयोर्द्वात्रिंशत्सहस्रसङ्ख्याको गच्छो यत्र संस्तरति स वृषभग्रामः, तत्र ये पूर्व स्थितास्तेषामवग्रहः, इतरे भक्त - पानमात्रसंतुष्टास्तिष्ठन्ति तत्र च सीमाच्छेदो विधातव्यः । कथम् ? इत्याह – “पल्ली" इत्यादि, युष्माभिर- 30 न्तरपल्ल्यां पर्यटनीयम्, अस्माभिः प्रतिवृषभग्रामे । प्रतिवृषभग्रामो नाम - मूलग्रामादर्घयोजने महान् ग्रामः । अथवा अन्तरपल्याः प्रतिवृषभस्य वा अर्धं युष्माकमर्धमस्माकम् । एवं सीमायां मूलग्रामस्य प्रतिवृषभग्रामस्य वाऽन्तरा यो ग्रामस्तस्याप्यर्धं युष्माकमर्धमस्माकम् । एतदचलम For Private & Personal Use Only Jain Education International 25 www.jainelibrary.org
SR No.002513
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages444
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy