________________
15
भाष्यगाथाः ४८५३-६१] तृतीय उद्देशः ।
१३०३ 'एकालये' एकस्यां वसतौ स्थितानामवग्रहस्य मार्गणा भवति । तत्र यः पूर्वं तस्यां वसतौ स्थितः तस्य सचित्तम चित्तं वा आभवति । अथ समकं द्वौ बहवो वा स्थितास्तदा साधारणा सा वसतिः । ये तु तस्या वसतेर्दूरे स्थिताः तेषामवग्रहस्य मार्गणा नास्ति । ये पुनरासन्ने स्थितास्तेषामियमवग्रहस्य मार्गणा भवति ॥ ४८५७ ॥
सज्झाय काल काइय, निल्लेवण अच्छणे असति अंतो।
वसहिगमो पेल्लंते, वसही पुण जा समापुण्णा ॥ ४८५८ ॥ 'अन्तः' प्रतिश्रयस्याभ्यन्तरे यदि खाध्यायभूमेः कायिकाभूमेः पात्रनिर्लेपनभूमेः आसनम्-ध्यानादिनिमित्तमुपवेशनं तद्भूमेश्चाभावस्ततो या बहिः स्वाध्यायभूमिप्रभृतयस्ताः समकमनुज्ञापिताः साधारणाः । अथैके पूर्व स्थिता अपरे च पश्चात् ततः पूर्वस्थितानामवग्रहः, पश्चादागतास्तु पूर्वस्थिताननुज्ञापयन्ति । यदि ते पूर्यमाणेऽवकाशे नानुजानन्ति इतरे वा तमपूर्य-10 माणं प्रेरयन्ति ततो वसतिविषयोऽपि स एव प्रायश्चित्तादिर्गमो भवति यः पूर्वं क्षेत्रं प्रेरयताम् उपलक्षणत्वाद् अननुज्ञापयतां चोक्तः । वसतिः पुनरिह या 'समापूर्णा' श्रमणैराकुला तस्याः प्रेरणे दोषा मन्तव्याः ॥ ४८५८ ॥ उक्तमचलक्षेत्रम् । अथ चलमाह
वइगा सत्थो सेणा, संवट्टो चउविहं चलं खेत्तं ।
एतेसिं णाणतं, वोच्छामि अहाणुपुवीए ॥ ४८५९ ॥ __ जिका सार्थः सेना संवर्त इति चतुर्विधं चलं क्षेत्रम् । एतेषां चतुर्णामपि नानात्वं वक्ष्यामि यथाऽऽनुपूर्व्या ॥ ४८५९ ॥ प्रतिज्ञातमेव करोति
जेणोग्गहिता वइगा, पमाण तूह दुह भंडि परिभोगे।
समवइग पुव्य उग्गह, साहारण जं च णीसाए ॥ ४८६० ॥ येन साधुना सा जिका पूर्वमवगृहीता स ब्रजिकावग्रहस्य स्वामी भवति । तस्य च ब्रजि-20 कावग्रहस्य किं प्रमाणम् ? इति चिन्तायां नैगमपक्षाश्रिता इमे आदेशाः-तत्रैक आचार्यदेशीयो . भणति-यावत्प्रमाणं भूभागं गावश्चारी चरितुं व्रजन्ति तावान् बजिकाया अवग्रहः; अपरो ब्रवीति-"तूहं" ति तीर्थ जलपानस्थानमित्येकोऽर्थः, तत्र जलपानाथ गावो यावद् गच्छन्ति; अन्यः प्राह- "दुह" ति यत्रोपस्थाने गावो दुह्यन्ते । आचार्यः प्राह-त्रयोऽप्येतेऽनादेशाः, अयं तु समीचीन आदेशः-भंडि परिभोगे" ति यावति भूभागे 'भण्डिकाः' गन्न्यस्तिष्ठन्ति 25 यावच्च वजिकायाः समीपे गोभिः परिभुक्तम्, एतावद् व्रजिकावग्रहस्य प्रमाणं मन्तव्यम् । तत्र च यदि समकं द्वौ साधुवर्गावेकस्यां वजिकायां स्थितौ तदा साधारणा सा व्रजिका । अथैकः पूर्व स्थितो द्वितीयस्तु व्रजिकान्तरेण समं पश्चादायातस्ततः पूर्वस्यावग्रहो भवति । अथ परस्परनिश्रया स्थितास्ततः साधारणं तत् क्षेत्रम् । यस्याश्च वजिकाया निश्रया द्वितीया वजिका स्थिता तस्यां ये साधवस्तेषामवग्रह आभवतीति सङ्ग्रहगाथासमासार्थः ।। ४८६०॥ 30 अथैनामेव विवरीषुरनादेशत्रयं निरस्याचार्यमतं तावद् विभावयति
ण गोयरो णेव य गोणिपाणं, णोवट्ठ दुज्झंति व जत्थ गावो। अब्भत्थ गोणादिसु जत्थ खुण्णं, स उग्गहो सेसमणुग्गहो तु ॥ ४८६१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org