________________
१२९६
सनिर्युक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ सेनाप्रकृते सूत्रम् ३०
'आरक्षिक : ' कोट्टपालस्तमापृच्छन्ति - वयमत्र न संस्तरामः ततो बहिर्निर्गच्छतां द्वारं प्रयच्छत । यद्यसौ ब्रूयात् — मा निर्गच्छत अहं भवतां पर्याप्तं दास्यामि ततो गृह्यते । अथ ब्रूयात् नास्ति मे किञ्चिद् भक्तं दातव्यम्, युष्मांश्च विसर्जयन् राज्ञो बिभेमि, ततः श्रेष्ठिनं पृच्छत । ततः श्रेष्ठिनमापृच्छन्ति, एवं सेनापतिममात्यं राजानं वाऽऽपृच्छन्ति । ततो यदि B राज्ञाऽपि विसर्जितास्तदा निर्गमनं कुर्वन्ति । द्वारपालानां च साधवो दर्श्यन्ते, यथा - एतान् दृष्टरूपान् कुरुत, भिक्षाग्रहणार्थमेते निर्गमिष्यन्ति प्रवेक्ष्यन्ति वा न किञ्चिद् भवद्भिर्वक्तव्यम् । तत्र च बहिर्गतैरसावद्या भाषा भाषितव्या ॥ ४८२९ ॥ अमुमेवार्थं स्पष्टयतिमा वच्च दाहामिं, संकाए वा ण देति णिग्गंतुं ।
दाणम्मि होइ गहणं, अणुसट्टादीणि पडिसेधे ॥ ४८३० ॥
10
आरक्षिकादयः पृष्टाः सन्तो भणन्ति मा व्रजत, वयं भक्तं दास्यामहे । ते च भेदशङ्कया साधूनां निर्गन्तुं न ददति ततो यद्यविशुद्धमपि ते प्रयच्छन्ति तदा तस्य ग्रहणं कर्तव्यम् । अथ " पडसे हे " ति न भक्तं न च निर्गन्तुं ददति ततोऽनुशिष्टि-धर्मकथादीनि प्रयुज्यन्ते ॥ ४८३० ॥
15
पियधम्मे दधम्मे, संबंधऽविकारिणो करणदक्खे | पडवत्तीय कुसले, तन्भूमे पेसए बहिता ॥ ४८३२ ॥
प्रियधर्मणो दृढधर्मणश्च प्रतीतान्, "संबंध" चि येषां अन्तर्बहिश्च स्वजनसम्बन्धो भवति 'अविकारिणो नाम' नोद्भटवेषा न वा कन्दर्पशीलास्तान्, 'करणदक्षान्' भिक्षाग्रहणादिक्रियासु परिच्छेदवतः, प्रतिपत्तिः - प्रतिवचनप्रदानं तत्र कुशलान्, "तब्भूमि" त्ति यो बहिः स्कन्धावार आगतस्तस्य भूमौ जात-वर्धितान् एवंविधान् साधून् बहिः प्रेषयेत् ॥ ४८३२ ॥ "भासा य तहिं असावज्ज" ( गा० ४८२९ ) त्ति पदं व्याचिख्यासुराह -
"
haar आस हत्थी, जोधा घण्णं व कित्तियं गगरे ।
परितंतमपरितंता, नागर सेणा व ण वि जाणे ॥ ४८३३ ॥
बाह्यस्कन्धावारसत्काः पृच्छेयुः -- नगराभ्यन्तरे कियन्तोऽश्वा हस्तिनो योधा वा सज्जिताः सन्ति ? धान्यं वाकियन्नगरेऽस्ति ? ' नागराः ' पैौराः सेना वा 'परितान्ताः ' रोधकेणोद्विमा उत 30 ‘अपरितान्ताः’ अनुद्विमा: ? । एवं पृष्टे वक्तव्यम् – न जानेऽहं ॥ ४८३३ ॥
ते वीरन्— तत्रैव वसन्तः कथं न जानीथ ? | साधवो ब्रुवते -
20
बहिया विगतूणं, आरक्खितमादिणो तहिं पिंति । हित - णट्ट चारिगादी, एवं दोसा जढा होंति ॥ ४८३१ बहिरपि गता एवमेवारक्षिक - श्रेष्ठिप्रभृतीन् 'गमयित्वा ' प्रज्ञाप्य तत्र भिक्षामटन्ति । एवं कुर्वद्भिर्हत नष्ट-चारिकादयो दोषाः परिहृता भवन्ति ॥ ४८३१ ॥
ये साधवो बहिः प्रस्थाप्यन्ते तेऽमीभिर्गुणैर्युक्ता भवन्ति —
25
Jain Education International
सुणमाणा वि न सुणिमो, सज्झाय-ज्झाण निश्चमाउत्ता । सावअं सोऊण वि, ण हु लब्भाऽऽइक्खिउं जतिणो ॥ ४८३४ ॥
For Private & Personal Use Only
www.jainelibrary.org