________________
10
भाष्यगाथाः ४८२१-२९] तृतीय उद्देशः ।
१२९५ प्रदेशेषु परिष्ठापयामि' इति बुद्धिं कृत्वा तत्रैव प्रक्षिपन्ति ॥ ४८२४ ॥ अथ राज्ञा वितीर्णे स्थण्डिले परिष्ठापयतां विधिमाह
अन्नाए परलिंगं, उवओगद्धं तुलेत्तु मा मिच्छं ।
णाते उड्डाहो वा, अयसो पत्थारदोसो वा ॥ ४८२५॥ यद्यसौ तत्राज्ञातस्तदा परलिङ्गं क्रियते, तच्च 'उपयोगाद्धाम्' अन्तर्मुहूर्वलक्षणां 'तोलयित्वा' प्रतीक्ष्य कर्त्तव्यम् , मा मिथ्यात्वं गमिष्यतीति कृत्वा । यो जनज्ञातस्तत्र परलिङ्गं न क्रियते, मा उड्डाहो भवेत् । उड्डाहो नाम-एते मायावन्तः पापाचाराः परोपधातकारिणश्चेति। इत्थं तेषामुड्डाहे जायमाने प्रवचनस्याप्ययशःप्रवादो भवति 'प्रस्तारदोषश्च' कुल-गण-सङ्घविनाशलक्षण उपजायते । एतद्दोषपरिहरणार्थ खलिङ्गेनैव परिष्ठाप्यते ॥ ४८२५ ॥ अथ भिक्षाद्वारमाह
न वि को वि कंचि पुच्छति, णितमणितं व अंतों बाहिं वा ।
आसंकितें पडिसेहो, णिकारण कारणे जतणा ॥ ४८२६ ॥ यत्र रोधके 'अन्तः' नगराभ्यन्तराद् बहिर्निर्गच्छन्तं बहिः-कटकाद्वा नगरान्तः प्रविशन्तं न कोऽपि कञ्चित् पृच्छति तत्र खेच्छया बहिरन्तर्वा भिक्षामटन्ति । यत्र पुनराशङ्कितं-क एषः ? कुतो वा आगतः ? मैष बहिर्गतः सन् किमपि कथयिष्यति किमर्थं वा निर्गच्छति ? 15 ईदृशे आशङ्किते निष्कारणे 'प्रतिषेधः' न गन्तव्यम् । कारणे तु यतना वक्ष्यमाणा भवति ॥ ४८२६ ॥ इदमेव भावयति
पउरण्ण-पाणगमणे, चउरो मासा हवंतऽणुग्घाया ।
सो त इयरे य चत्ता, कुल गण संघे य पत्थारो ॥ ४८२७ ॥ प्रचुरान्न-पाने लभ्यमाने यदि बहिर्गच्छति तदा चत्वारो मासा अनुद्धाता भवन्ति आज्ञादयश्च 20 दोषाः । तेन साधुना 'सः' खकीय आत्मा 'इतरे च' अभ्यन्तरवर्तिनः साधवः परित्यक्ता भवन्ति । तत्र स बहिःसैन्ये गतः सन् पृच्छयमानोऽपि यदा किमपि नाख्याति तदा 'चारिकोऽयम्' इति मत्वा गृह्यते, अभ्यन्तरवर्तिनस्तु 'अमीषां प्रव्रजितो निर्गतस्तेन भेदः प्रदत्तः' इति कृत्वा गृह्यन्ते । एवं च कुल-गण-सङ्घप्रस्तारोऽपि राज्ञा क्रियेत ततो निष्कारणे न गन्तव्यम् ।।४८२७॥ अंतो अलब्भमाणे, एसणमाईसु होति जइतव्वं ।
25 जावंतिए विसोधी, अमच्चमादी अलाभे वा ॥ ४८२८॥ 'अन्तः' मध्ये प्राशुकैषणीयेऽलभ्यमाने पञ्चकपरिहाणिक्रमेणैषणादिषु दोषेषु नगराभ्यन्तर एव यतितव्यम् , यावद् यावन्तिकादिरूपेषु विशोधिकोटिदोषेषु यतमानश्चतुर्लघुप्राप्तो भवति । तथाप्यलम्भेऽमात्यं आदिशब्दाद् दानश्राद्धादीन् वा प्रज्ञापयन्ति । ते यद्यविशोधिकोटिदोषैर्दुष्टं प्रयच्छन्ति तदा तदपि गृह्यते, न पुनर्बहिर्गन्तव्यम् ॥ ४८२८ ॥ अथ तथापि न लभ्यते ततः
आपुच्छित आरक्खित, सेट्ठी सेणावती अमञ्च रायाणं । णिग्गमण दिगुरूवे, भासा य तहिं असावजा ॥ ४८२९ ।।
30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org