________________
15
१२९४
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ सेनाप्रकृते सूत्रम् ३० गता वसतियतना । भक्तार्थनयतनाऽपि "पउरदव वड्डगाई" (गा० ४८१८) इत्यादिना अत्रैवोक्ता । अथ स्थण्डिलयतनामाह
तं चैव पुन्वभणितं, पत्तेयं दिस्समाणे कुरुया य ।
थंडिल्ल सुक्ख हरिए, पवायपासे पदेसेसु ॥ ४८२१ ॥ 6 स्थण्डिलं तदेव पूर्वभणितं "अणावायमसंलोए" (गा० ४१९) इत्यादिना यथा पीठिकायामुक्तं तथैवात्रापि मन्तव्यम् । प्रथमस्थण्डिलालाभे शेषेषु गच्छतां प्रत्येकं मात्रकग्रहणं भवति, सागारिकेण च दृश्यमाने कुरुकुचा कर्तव्या। एवं बहिः स्थण्डिले लभ्यमाने यतना । अथ बहिर्न लभ्यते निर्गन्तुं ततो यद् नगराभ्यन्तरे स्थण्डिलमनुज्ञातं तत्र यानि तृणानि शुष्काणि तेषु व्युत्सृजति, तेषामभावे दरमलितेषु मिश्रेषु, तदप्राप्तौ हरितेषु सचित्तेष्वपि व्युत्सृजति । अत्र 10 च प्रत्येका-ऽनन्त-स्थिरा-ऽस्थिरादियतना सर्वाऽपि कर्तव्या यथा ओघनिर्युक्तौ (गा० ६१८
आदि पत्र १९७ ) भणिता । अथ प्रपाते गर्तायां नदीतटे प्राकारोपरि वा राज्ञाऽनुज्ञातं तत एतेषां पार्थे व्युत्सृजति । यदि सर्वथैव स्थण्डिलं ने लभ्यते अधश्च भूमिं न पश्यति ततो धर्मा-ऽधर्मादिप्रदेशेष्वपि व्युत्सृजन् शुद्धः ॥ ४८२१॥ ___ अथ “पत्तेयं दिस्समाणे कुरुया य" त्ति पदं व्याख्याति
पढमासइ अमणुण्णेतराण गिहियाण वा वि आलोगं । पत्तेयमत्त कुरुकुय, दवं च पउरं गिहत्थेसुं॥ ४८२२ ॥ तेण परं पुरिसाणं, असोयवादीण वच्च आवातं ।
इत्थी-नपुंसकेसु वि, परम्मुहो कुरुकुया सेव ॥ ४८२३ ॥ गाथाद्वयमपि पीठिकायां (गा० ४६३-६४ ) व्याख्यातम् ॥ ४८२२ ॥ ४८२३ ।। एषा 20 उच्चारयतना भणिता । अथ शरीरविवेचनयतनामाह
पच्छण्ण पुव्वभणियं, विदिण्ण थंडिल्ल सुक्ख हरिए य ।
अगड वरंडग दीहिय, जलणे पासे पदेसेसु ॥ ४८२४ ॥ यद्यसौ कालगतः साधुस्तत्र केनापि न ज्ञातस्ततोऽन्तर्मुहूर्तप्रमाणे उपयोगकालेऽतीतेऽन्यलिङ्गं कृत्वा 'प्रच्छन्नम्' अल्पसागारिकं स्थण्डिले परिष्ठाप्यते । अथ ज्ञातस्तदा "पुवमणि26 य" ति यदि नगराद् निर्गमो न लभ्यते प्रत्यपायो वा निर्गतानां भवति ततो नगराभ्यन्तरे
पूर्वम्-इहैव मासकल्पप्रकृते (गा० १६३०) पारिष्ठापनिकानियुक्तौ (गाथा ३३-३५ हारि० आव० वृत्ति पत्र ६३०) वा यो भणितो विधिस्तेनोपाश्रयादपरदक्षिणस्यां दिशि परिष्ठापयन्ति । अथ तस्यां न लभ्यते ततो राज्ञा 'वितीर्णम्' अनुज्ञातं यत् स्थण्डिलं तत्र परिष्ठापयन्ति । अथ स्थण्डिले हरितानि भवन्ति ततः शुष्कतृणेषु, तदभावे मिश्रेषु, तदप्राप्तौ 30 हरितेष्वपि परिष्ठापयन्ति । अथ राज्ञाऽभिहितम्-सर्वैरपि पाखण्डिभिः 'अगडे' गर्तीयां शबं परित्यक्तव्यम् , प्राकारवरण्डके वा दीर्घिकायां वा नद्यां वा वहन्त्यां ज्वलने वा ज्वलति प्रक्षेप्तव्यं तत एतेषां पार्थे परिष्ठापयन्ति । अथ न लभ्यते पार्श्वतः परित्यक्तं ततः 'धर्मास्तिकायादि१°न प्राप्यते अ° का० ॥ २ °स्ततो मुहूर्त्तमात्रेण उप कां० ॥ ३ गारिके स्थ° का ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org