________________
15
भाष्यगाथाः १८३०-३८] तृतीय उद्देशः ।
१२९७ वयं खाध्याय-ध्यानयोर्नित्यमायुक्ताः सन्तः शृण्वन्तोऽपि वार्तान्तरं न शृणुमः, अपि च सावधं श्रुत्वाऽपि यतीनामन्यस्याख्यातुं 'न लभ्यते' न युज्यते । अन्तःप्रविष्टस्य तु यदि कोऽपि पृच्छति तदा वक्तव्यम्-भिक्षाधुपयोगेन न ज्ञातम् । अन्तर्बहिश्च साधारणमिदमुत्तरम्
शृणोति बहु कर्णाभ्यामक्षिभ्यां बहु पश्यति । न च दृष्टं श्रुतं सर्वं, भिक्षुराख्यातुमर्हति ॥
॥ ४८३४ ॥ 5 एवं भिक्षामटित्वा प्रर्याप्ते सञ्जाते सति किं कर्त्तव्यम् ? इत्याह
भत्तट्टणमालोए, मोत्तणं संकिताइँ ठाणाई ।
सच्चित्ते पडिसेधो, अतिगमणं दिट्ठरूवाणं ॥ ४८३५॥ 'भक्तार्थनं' भोजनं 'आलोके' प्रकाशे भवति । यानि 'शङ्कितानि' चारिकादिशङ्काविषयभूतानि गुपिलानि स्थानानि तानि मुक्त्वा, तेषु न विधेयमित्यर्थः । यश्च सचित्तः प्रवजितुमुप-10 तिष्ठते तत्र 'प्रतिषेधः' स न प्रव्राजयितव्यः किन्तु ये पूर्व द्वारपालेन दृष्टरूपाः कृतास्तेषामेव 'अतिगमनं' भूयः प्रवेशो भवति ॥ ४८३५॥ एषा बह्वर्थसङ्घाहिका नियुक्तिगाथा, अत एनां भाष्यकृद् क्वृिणोति
सावग-सण्णिट्ठाणे, ओतवितेकतर इतर भत्तहँ ।
तेसऽसती आलोए, वडग-कुरुयादि सच्चेव ॥ ४८३६ ॥ यत्र श्रावकः श्राविका चोभयमपि ओयवितं-साधुसामाचारीकुशलं तत्र स्थाने भक्तार्थयन्ति । तदलामे यत्रैकतरं साधुसामाचारीचतुरं तत्र समुद्देष्टव्यम् । एकतरस्यापि खेदज्ञस्याभावे 'इतरेषु' अखेदज्ञेष्वपि श्रावकेषु यथाभद्रके वा भक्तार्थयितव्यम् । तेषामभावेऽटव्याम् 'आलोके' अशङ्कनीये सप्रकाशे प्रदेशे समुद्दिशन्ति । वड्डग-कुरुकुचादिका तु सैव यतना कर्तव्या । शैक्षस्तु यदि कोऽप्युपतिष्ठते तदा न प्रव्राजनीयः । अथ कोऽपि खयमेव लिङ्गं 20 कृत्वा प्रविशति ततो वक्तव्यम्-वयं गणिता नामाङ्किता एव द्वारेण निर्गताः, ततः त्वं तत्र गतः सन् गृहीत्वा विनाशयिष्यसे । एवमुक्तेऽपि यद्यसावागच्छति तदा द्वारं प्राप्ता द्वारपालं भणन्ति-न जानीमो वयं कमप्येनम् , अस्मानेतान् दृष्टरूपान् कुरुत ॥ ४८३६ ॥
भत्तट्ठिय बाहाडा, पुणरवि घेत्तुं अतिति पज्जत्तं ।
अणुसट्ठी दारहे, अण्णो वऽसतीय जं अंतं ॥ ४८३७ ॥ एवं भक्त-पानं पर्याप्तं गृहीत्वा 'भक्तार्थिताः' कृतभोजनाः 'बाहाडिताः' तद्भुक्तन्यूनभाजनाः पुनरपि नगरं 'अतियन्ति' प्रविशन्ति । यदि 'द्वारस्थः' द्वारपालो मार्गयति-पौद्गलिक मे प्रयच्छत; ततोऽनुशिष्टिः कर्त्तव्या । अन्यो वा यदि कोऽप्यनुकम्पया ददाति तदा न वारणीयः । तस्य 'असति' अभावे यद 'अन्तम्' प्रान्तं तद् दीयते ॥ ४८३७ ॥
रुद्धे वोच्छिन्ने वा, दारहे दो वि कारणं दीवे ।
इहरा चारियसंका, अकालओखंदमादीसु ॥ ४८३८ ॥ अथ निर्गतानां द्वारं रुद्धं-स्थगितं गमागमो वा व्यवच्छिन्नस्ततः 'द्वयेऽपि' आभ्यन्तरा १°का भद्रबाहुस्खामिकता गा भा०॥
36
30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org