________________
१२८९
भाष्यगाथा: ४७९५-४८०३ ] तृतीय उद्देशः ।
अतिसेस-देवत- णिमित्तमादि अवितह पवित्ति सोनूर्ण । णिग्गमण होइ पुत्रं, अणागते रुद्र वोच्छिष्णे ।। ४७९८ ।। अवधिज्ञानाद्यतिशयेन स्वयमेव ज्ञातम्, अपरेण वा अतिशयज्ञानिना पृष्टेन कथितम्, देवता वा कयाचिदाख्यातम्, अविसंवादिना वा निमित्तेनावगतम्, आदिग्रहणेन विद्यामन्त्रादिपरिग्रहः, अथवा प्रवृत्तिः - वार्ता तामवितथां श्रुत्वा ततः क्षेत्रात् पूर्वमेव निर्गमनं कर्त्तव्यं 5 भवति । अथानागतं न ज्ञातम् सहसैव तन्नगरं रुद्धं पन्थानो व्यवच्छिन्नास्ततो न निर्गच्छेयुरपि ॥ ४७९८ ॥ अथवा अमीभिः कारणैर्ज्ञातेऽपि न निर्गता भवेयुः
गेलन रोगि असिवे, रायद्दुट्ठे तहेव ओमम्मि |
वही - सरीरतेrग, जाते वि ण होति णिग्गमणं ॥ ४७९९ ॥
'ग्लानः ' ज्वरादिपीडितः कश्चिदस्ति तत्प्रतिबन्धेन गन्तुं न शक्यते, “रोगि" चि दुष्ट - 10 रोगेण कुष्ठादिना कश्चिदत्यन्तमभिभूतः स परित्यक्तुं न पार्यते, बहिर्वा अशिवं राजद्विष्टमवमौदर्यं च विद्यते, उपधिस्तेनाः शरीरस्तेना वा बहिर्गच्छत उपद्रवन्ति, एतैः कारणैर्ज्ञातेऽपि परचक्रागमने निर्गमनं न भवति ॥ ४७९९ ॥
हिय अण्णेहि य, ण णिग्गया कारणेहिं बहु एहिं । अच्छंति होइ जयणा, संवट्टे नगररोधे य ॥ ४८०० ॥
15
एतैरन्यैश्च बहुभिः कारणैर्न निर्गता भवेयुः ततस्तत्रैव सन्तिष्ठतां संवर्त्ते नगररोधके च यतना वक्तव्या । संवर्त्तो नाम - परचक्रागमनं श्रुत्वा यत् पर्वत- जल-दुर्गादिषु बहूनां ग्रामाणां जनः संवत्तींभूयैकत्र तिष्ठति । नगररोधकः प्रतीतः ॥ ४८०० ॥ तत्र संवर्ते यतनामाहसंवट्टमि तु जयणा, भिक्खे भत्तट्टणाऍ वसहीए ।
तम्मि भये संपत्ते, अवाउडा एकओ ठंति ॥ ४८०१ ॥
संवतिष्ठतां भैक्षे भक्तार्थनायां वसतौ च यतना कर्त्तव्या । ' तस्मिंश्च' परचक्रलक्षणे भये सम्प्राप्तेऽपावृता एकतस्तिष्ठन्तीति नियुक्तिगाथासमासार्थः ॥ ४८०१ ॥
साम्प्रतमेनामेव विवृणोति -
वासु व पल्ली व भिक्खं काउं वसंति संवट्टे ।
25
सव्वम्म रजखोभे, तत्थेव य जाणि थंडिले ॥ ४८०२ ॥ संवर्त्तेऽभिनवसन्निविष्टतया सचित्तः पृथिवीकायो भवतीति कृत्वा भिक्षां न हिण्डन्ते किन्तु पूर्वस्थितासु व्रजिकासु वा पल्लीषु वा भिक्षां कृत्वा तत्रैव स्थण्डिले भुक्त्वा रात्रौ संवर्ते समागत्य वसन्ति । अथ सर्वस्यापि राज्यस्य क्षोः ततो नजिकादिकमपि नास्ति तदा 'तत्रैव' संवर्ते यानि कुलानि स्थण्डिले स्थितानि तेषु भिक्षां हिण्डन्ते ॥ ४८०२ ॥ अथ न सन्ति स्थण्डिले स्थितानि तत इयं यतना
पूवलिय-सत्तु - ओदणगहणं पडलोवरिं पगासमुहे ।
सुक्खादीण अलंभे, अजविंता वा वि लक्खेंति ॥ ४८०३ ॥ जगारि - तक-तीमनादौ आर्डे प्रपतति पृथिवीकाय विराधना भवेदिति मत्वा याः पूपलिका
For Private & Personal Use Only
Jain Education International
20
30
www.jainelibrary.org