________________
१२९० सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ सेनाप्रकृते सूत्रम् ३० ये च सक्तवो यश्च शुष्कौदन एवमादिकं शुष्कद्रव्यं पटलोपरिस्थिते प्रकाशमुखे भाजने गृह्णन्ति । अथ शुष्कादीनां लाभो न भवति, आदिशब्दः खगतानेकभेदसूचकः, न वा तैरात्मानं यापयन्ति तत आट्टैण गृह्यमाणेन यत्र पटलकादौ खरण्टको लमस्तं सम्यग् लक्षयन्ति ॥ ४८०३ ॥ ___गतं भिक्षाद्वारम् । अथ भक्तार्थनाद्वारमाह
पच्छन्नासति बहिया, अह सभयं तेण चिलिमिणी अंतो।
असतीय व सभयम्मि व, धरंति अद्धेयरे भुंजे ॥ ४८०४ ॥ संवर्चस्यान्तः प्रच्छन्ने प्रदेशे भक्तार्थनं कर्त्तव्यम् । अथान्तः प्रच्छन्नं नास्ति ततः संवर्तस्य बहिर्गत्वा समुद्देष्टव्यम् । अथ बहिः सभयं ततः 'अन्तः' संवर्तस्याभ्यन्तर एव चिलिमिलिकां दत्त्वा भोक्तव्यम् । अथ नास्ति चिलिमिलिका सभये वा सा न प्रकटीक्रियते ततो अर्द्ध साधवो 10 भाजनानि धारयन्ति, 'इतरे' द्वितीया अर्द्धं कमठकेषु भुञ्जते ॥ ४८०४॥
काले अपहुचंते, भए व सत्थे व गंतुकामम्मि ।
कप्पुवरि भायणाई, काउं इक्को उ परिवेसे ॥ ४८०५॥ अथ वारकेण भुञ्जानानां कालो न पूर्यते, भये वा त्वरितं भोक्तव्यम् , यो वा संवतें सार्थः स गन्तुकामस्ततः कल्पस्योपरि भाजनानि 'कृत्वा' स्थापयित्वा सर्वेऽपि कमठकादिषु भुञ्जते, 16 एकश्च तेषां सर्वेषामपि परिवेषयेत् ॥ ४८०५॥
पत्तेग वड्डगासति, सज्झिलगादेकओ गुरू वीसुं।
ओमेण कप्पकरणं, अण्णो गुरुणेकतो वा वि ॥ ४८०६॥ 'प्रत्येकं यदि सर्वेषां 'वड्डुकानि' कमठकानि न सन्ति ततो ये 'सज्झिल्लकाः' परस्पर सहोदरा भ्रातरः, आदिशब्दाद् अन्येऽपि ये प्रीतिवशेनैकत्र मिलन्ति ते एकतः समुद्दिशन्ति, 20 गुरवः 'विष्वक्' पृथग् भुञ्जते । यदा सर्वेऽपि भुक्तास्तदा यस्तत्र 'अवमः' लघुस्तेन कमठकानां कल्पकरणं विधेयम्, गुरूणां सकं कमढकं तैः सह न मील्यते । अन्यस्तस्य कल्पं प्रयच्छति । अपूर्यमाणेषु च साधूनां गुरोश्व कमढकान्येकतोऽपि कल्पयन्ति ॥ ४८०६ ॥
भाणस्स कप्पकरणं, दड्डिल्लग मुत्ति कड्डयरुक्खे य ।
तेसऽसति कमढ कप्पर, काउमजीवे पदेसे य ॥ ४८०७॥ क भाजनस्य कल्पकरणं दग्धभूमिकायां गोमूत्रभाविते वा भूभागे कटुकवृक्षस्याधस्ताद्वा कर्तव्यम् । 'तेषां' दग्धादिस्थण्डिलानामभावे कमढकेषु घटादिकपरे वा भाजनस्य कल्पं कृत्वा तत् कल्पपानकमन्यत्र नीत्वा स्थण्डिले परिष्ठापयन्ति, गते वा संवर्ते पश्चात् परिमलितजीवप्रदेशेषु परिष्ठाप्यम् । सभये वा त्वरमाणाः स्थण्डिलस्य वा अभावे 'धर्मा-ऽधर्मास्तिकायसम्बन्धिषु
अजीवप्रदेशेषु परिष्ठापयामः' इति बुद्धिं विधाय अस्थण्डिले परिष्ठापयन्ति ॥ ४८०७ ॥ 30 गतं भक्तार्थनद्वारम् । वसतिद्वारमाह
गोणादीवाघाते, अलब्भमाणे व बाहि वसमाणा ।
वातदिसि सावयभए, अवाउडा तेण जग्गणता ॥४८०८॥ संवतस्यान्तो निरावाधे परिमलिते प्रदेशे वसन्ति । अथ तत्र गवादिभिरितस्ततस्तडफडा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org