SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ १२८८ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ सेनाप्रकृते सूत्रम् ३० अस्य सम्बन्धमाह-- उवरोहभया कीरइ, सप्परिखो पुरवरस्स पागारो। तेण र सेणासुत्तं, अणुअत्तइ उग्गहो जं च ॥ ४७९५॥ पूर्वसूत्रे प्राकारः प्राकारपरिखा चोक्ता । स च प्राकारः सपरिखोऽपि पुरवरस्योपरोधः-पर5 चक्रेण वेष्टनं तद्भयात् क्रियते । तेन कारणेन "र" इति पादपूरणे सेनासूत्रमिदमारभ्यते । यच्चावग्रहः पूर्वसूत्रेभ्यः अनुवर्तते, अव्यवच्छिन्न एवागच्छन्नस्तीति भावः, अतो यथा रोधके राजावग्रहमनुज्ञाप्य बहिर्निर्गम्यते प्रविश्यते वा तथाऽभिधीयते ॥ ४७९५ ।। अनेन सम्बन्धेनायातस्यास्य व्याख्या-सेशब्दोऽथशब्दार्थे । अथ ग्रामस्य वा यावद् राजधान्या वा, यावत्करणाद् नगरस्य वा खेटस्य वा इत्यादिपरिग्रहः, एतेषामन्यतरस्य बहिः 10 'सेना' राज्ञः स्कन्धावार रोधकं कृत्वा सन्निविष्टं 'प्रेक्ष्य' दृष्ट्वा कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा तदिवसं भिक्षाचर्यायां गत्वा प्रत्यागन्तुम् । “नो" नैव "से" तस्य विवक्षितस्य भिक्षोः कल्पते तां रजनीं 'तत्रैव' सेनायाम् 'उपादातुम्' अतिक्रामयितुम् । यः खलु निर्ग्रन्थो वा निर्ग्रन्थी वा तां रजनीं तत्रैवोपाददाति उपाददतं वा खादयति सः 'द्विधाऽप्यतिक्रामन्' जिनसीमानं राजसीमानं च विलुम्पन् आपद्यते चातुर्मासिकं परिहारस्थानमनुद्घातिकमिति 15 सूत्रार्थः ।। अथ भाष्यविस्तरः सेणादी गम्मिहिई, खित्तुप्यायं इमं वियाणित्ता । असिवे ओमोयरिए, भय-चक्काऽणिग्गमे गुरुगा॥ ४७९६ ॥ क्वचित् मासकल्पक्षेत्रे स्थितैख़तम्-सेना-परचक्रमत्र समायास्यति, आदिशब्दाद् अशिवमवमौदर्य म्लेच्छादिभयं वा भविष्यति । एवमादौ कारणे पश्चादपि गमिष्यत इति कृत्वा 20 अनागतमेव ततः क्षेत्राद् निर्गन्तव्यम् । कथं पुनरनागतं तद् ज्ञायते ? इत्याह-क्षेत्रस्योत्पातः क्षेत्रोत्पातः-परचक्रायुपद्रवसूचकानि लिङ्गानीत्यर्थः, तानि च दिक्कनवालं धूमायते, अकाले तरूणां पुष्प-फलानि जायन्ते, महता शब्देन भूमिः कम्पते, समन्ततः क्रन्दित-कूजितशब्दाः श्रूयन्ते इत्यादीनि मन्तव्यानि । एवं क्षेत्रोत्पातममुं विज्ञाय निर्गन्तव्यम् । अथ न निर्गच्छन्ति ततः अशिवे अवमौदर्य बोधिकभये परचक्रागमने ज्ञातेऽपि निर्गमनमकुर्वतां चतुर्गुरुकाः ॥४७९६॥ आणाइणो य दोसा, विराहणा होइ संजमा-ऽऽयाए । असिवादिम्मि परुविते, अधिकारो होति सेणाए ॥ ४७९७ ॥ आज्ञादयश्च दोषाः विराधना च संयमा-ऽऽत्मविषया भवति । संयमविराधना शुद्धे भक्तपानेऽलभ्यमानेऽनेषणीयं गृह्णीयादित्यादिका, आत्मविराधना परिताप-महादुःखादिका । यदा चाशिवादिकं प्रतिपदं प्ररूपितं भवति तदा अत्र सेनाया अधिकारः कर्तव्यः । अशिवादिकं 30 च प्रथमोद्देशकेऽध्यसूत्रे (गा० ३०६२ आदि ) सप्रपञ्चं प्ररूपितमिति नेह भूयः प्ररूप्यते ॥ ४७९७ ॥ तच्च परचक्रागमनं यथा ज्ञायते तथा दर्शयति-- १ अस्मदन्तिकवर्तिषु निखिलेष्वप्यादर्शेषु स्थानमुद्धा इत्येव पाठ उपलभ्यते, न चासौ साधुरिति परिवर्तितोऽस्माभिः ॥ २°त् क्षेत्र स्थि° भा० । त् क्षेत्रे मासकल्पस्थि' कां० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002513
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages444
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy