________________
भाष्यगाथाः ४७८९-९४] तृतीय उद्देशः ।
१२८७ वृतौ-बबूलादिपरिक्षेपरूपायां मित्तौ-इष्टकादिनिर्मितायां कटकमये च कुड्ये पथि मर्यादायां च “रयणि" ति एकहस्तमानोऽवग्रहो भवति । अनुचरिकायामष्टौ हस्ताः । परिखायां चत्वारो रत्नयः ॥ ४७९२ ॥ इदमेव भावयति
वतिसामिणो वतीतो, हत्थो सेसोग्गहो परवतिस्स ।
तस्स तहिं ममकारो, जति वि.य णिम्माणि जा भूमी ॥ ४७९३ ॥ 5 यो गृहपतिर्विवक्षिताया वृतेः स्वामी तस्य वृतेः परतो हस्तमात्रमवग्रहो भवति, शेषस्तु सर्वोऽपि नरपतेरवग्रहो मन्तव्यः । अथ किं कारणं वृतिखामिनो वृतेः परतोऽप्यवग्रहो भवति ? इत्याह-'तस्य' गृहपतेः 'तत्र' वृतेः परतो हस्तप्रमाणे भूभागे ममकारो भवति, अतो यद्यपि "निम्माणि" ति मूलपादानेव यावद् विवक्षितगृहसत्का भूमिस्तथापि वृतेः परतो हस्तमेकं तस्यावग्रहः । एवं भित्ति-कुड्यादिष्वपि भावनीयम् ॥ ४७९३ ॥
10 हत्थं हत्थं मोतुं, कुड्डादीणं तु मज्झिमो रण्णो।
जत्थ न पूरइ हत्थो, मझें तिभागो तहिं रन्नो ॥ ४७९४ ॥ तेषामेव कुड्यादीनां हसं हस्तमुभयोरपि गृहयोर्मुक्त्वा मध्यमः सर्वोऽपि राज्ञोऽवग्रहः । यत्र तु गृहद्वयापान्तरालस्यातिस्तोकतया हस्तो न पूर्यते तत्र मध्यमस्त्रिभागो राज्ञः, शेषौ द्वौ गृहखामिनोः; एतदवग्रहपरिमाणमुक्तम् । अत्र चोच्चारादीनि स्थान-निषदनादीनि वा कुर्वन् 15. यदि कुड्यादीनां हस्ताभ्यन्तरे करोति ततो गृहपत्यवग्रहो मनसि क्रियते, हस्ताद् बहिश्चरिकाप्राकार-परिखादिषु च राजावग्रहोऽनुज्ञाप्यते, अटव्यामपि यद्यसौ राजा प्रभवति तदा तस्यैवा. वग्रहः स्मर्यते, अथासौ तत्र न प्रभवति ततो देवेन्द्रावग्रहो मनसि क्रियते ॥ ४७९४ ॥
॥ अवग्रहप्रकृतं समाप्तम् ॥
-
20
से ना प्रकृतम् सूत्रम्
से गामस्स वा जाव रायहाणीए वा बहिया सेणं सन्निविटुं पेहाए कप्पइ निग्गंथाण वा निग्गंथीण वा तदिवसं भिक्खायरियाए गंतुं पडिएत्तए । नो से कप्पइ तं रयणिं तत्थेव उवाइणावित्तए । जो खल निग्गंथो वा निग्गंथी वा तं रयणिं तत्थेव उवाइणाइ, उवातिणंतं वा साइजति, से दुहतो वि अइक्कममाणे आवजइ चाउम्मासियं परिहारट्ठाणं अणुग्धाइयं ३०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org