SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ 10 15 भाष्यगाथाः ४२२३-३१] तृतीय उद्देशः । ११४७ व्यम् -'हे भदन्त !' आर्य ! मा 'ते' तव भूयो दुर्लभमुपकरणं भवेद् अत आत्मपार्श्वे एव तावद् धारय ॥ ४२२६ ॥ स प्राह भारेण खंधं च कडी य बाहा, पीलिजए णिस्ससए य उच्चं । तेणा य उवधीणमभिद्दवेजा, ण इत्तिया इंति ममोवभोगं ॥ ४२२७ ॥ मम मार्ग गच्छतो द्वयोः प्रत्यवतारयोर्महान् भारो भवति, तेन स्कन्धः कटी बाहा च । गाढतरं पीड्यते, ततश्च 'उच्चम्' ऊद्धं निःश्वसीम्यहम् , निःश्वासेनाकुलो भवामीत्यर्थः । स्तेनाश्च मामुपकरणमालितं दृष्ट्वा उपधिकारणादभिवेयुः । एतावन्ति च वस्त्र-पात्राणि ममोपभोगं नायान्ति ॥ ४२२७ ॥ यच्च भगवद्भिरुक्तम्-'मा भूयो दुर्लभं भवेत्' तत्रोच्यते जं होहिति बहुगाणं, इमम्मि धम्मचरणं पवण्णाणं । तं होहिति अम्हं पी, तुम्हेहि समं पवण्णाणं ॥ ४२२८ ॥ यद् युप्माकं बहूनाम् 'अस्मिन्' भागवते शासने धर्मचरणं प्रपन्नानामुपकरणं भविष्यति तदस्माकमपि युष्माभिः समं हिण्डमानानां चारित्रं प्रपन्नानां भविष्यति ॥ ४२२८ ॥ एष तत्प्रथमतया प्रव्रजतो विधिरुक्तः । अथ पूर्वोपस्थितविषयं तमेवाह-~ सिद्धी वीरणसढए, अब्भुट्ठाणं पुणो अजाणते । कत कारितं च कीतं, जाणते अधापरिग्गहिते ॥ ४२२९ ॥ यश्चारित्रं परित्यज्य गृहवासमुपगतस्तस्य कथं पुनरपि प्रव्रज्यायामभ्युत्थानसिद्धिः सञ्जाता।। अत्र वीरणसढकदृष्टान्तो वक्तव्यः, एवं तस्य पुनरभ्युत्थानं भवति । स च द्विधा-जानानो अजानानश्च । यः कल्पा-ऽकल्पविभागं जानाति स जानानः, तद्विपरीतो अजानानः, अगीतार्थ इत्यर्थः । अजानति भूयः प्रत्रज्यायामभ्युत्तिष्ठमाने कृतं वा कारितं वा क्रीतं वा दीयमानं पूर्वोक्तविधिना कल्पते । यस्तु जानानस्तस्य 'यथापरिगृहीतानि' शुद्धान्येव ग्रहीतुं कल्पन्ते, न 20 कृत कारितादीनि ॥ ४२२९ ॥ अथ वीरणसढकदृष्टान्तमाह जह सो वीरणसढओ, णइतीररुहो जलस्स वेगेणं । थोवं थोवं खणता, छूढो सोयं ततो बूढो ॥ ४२३० ॥ यथा 'सः' कश्चिद् विवक्षितः 'वीरणसढका' वीरणानां-तृणविशेषाणां स्तम्बो नद्यास्तीरे रोहति स्म-जायते सेति नदीतीररुहः, नद्याः प्रत्यासन्नतया जलस्य वेगेन स्तोकं स्तोकेन खनता 25 भूमिकानिहितमूलजालोऽप्यचिरादेव स्रोतसि प्रक्षिप्तः । ततश्च स्रोतसा 'व्यूढः' वाहयित्वा समुद्रं प्रापित इति भावः ॥ ४२३० ॥ एष दृष्टान्तः । अयमर्थोपनयः-- ठिय-गमिय-दिट्ठ-ऽदिद्वेहि साधुहिं अहरिहं समणुसट्ठो। उण्हेहुण्हतरेहि य, चालिजति बद्धमूलो वि ॥ ४२३१ ॥ कश्चित् पश्चात्कृतः सिद्धपुत्रकादिविशेषेण, साधूनामागमनमार्गभूते कचिद् ग्रामे गृहवास-30 मध्यास्य तिष्ठन् ये तत्र मासकल्पं वर्षाकल्पं वा स्थिताः साधवः, ये च “गमि" ति तत्र १ जइ हो° मो० ले० ॥ २ पि हु, तु तामा० ॥ ३ यदि यु' त• डे० मो० ले० ॥ ४ स्तो ख. भा. कां ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002513
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages444
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy