________________
११४६
सनियुक्ति-लघुभाष्य-वृत्ति के बृहत्कल्पसूत्रे [ त्रिकृमप्रकृते सूत्रम् १३ पिशाचविशेषः कुत्रिकापणे मार्गितः । ततोऽष्टमं कृत्वा शतसहस्रेण भूतः प्रदत्तः, इदं च भणितम्-कर्मण्यदीयमाने अयं 'रुष्टः' कुपितो मारयतीति । स च भूतं गृहीत्वा भरुकच्छे आगमनं कृत्वा व्यापारदानं तस्य कृतवान् । स भूतस्तं व्यापार क्षिप्रमेव करोति । ततः सर्वकर्मपरिसमाप्तौ वणिजा भीतेन भूतस्य पार्थात् स्तम्भ एकः कारयाञ्चके । ततस्तं भूतमभिहितवान्5 यावदपरं व्यापार न ददामि तावद् 'अत्र' स्तम्भे 'उत्सर' आरोहा-ऽवरोहक्रियां कुरु इति भावः । ततः स भूत उक्तवान्—निर्जितोऽहं भवता, अत आत्मनः पराजयचिह्नं करोमि । अश्वेन गच्छन् यावद् 'न प्रेक्षसे' न पश्चादवलोकसे तत्र प्रदेशे तडागं करिष्यामि इति भणित्वा तथैव कृते भूततडागं कृतवान् ॥ ४२२० ॥ ४२२१ ॥ ४२२२ ॥
एमेव तोसलीए, इसिवाली वाणमंतरो तत्थ । 10
णिजित इसीतलागे, रायगिहे सालिभद्दस्स ॥ ४२२३ ॥ 'एवमेव' तोसलिनगरवास्तव्येन वणिजा उज्जयिनीमागम्य कुत्रिकापणाद् ऋषिपालो नाम वानमन्तरः क्रीतः । तेनापि तथैव निर्जितेन ऋषितडागं नाम सरश्चक्रे । तथा राजगृहे शालिभद्रस्य रजोहरणं प्रतिग्रहश्च कुत्रिकापणात् प्रत्येकं शतसहस्रेण क्रीतः ॥ ४२२३ ॥
अथ सप्त निर्योगान् व्याचष्टे15
तिण्णि य अत्तवेती, चत्तारि य पूयणारिहे देति ।
दितस्स य चित्तव्यो, सेहस्स विचिंचणं का वि ॥ ४२२४ ॥ ___ स सप्त नियोगान् गृहीत्वा प्रव्रजतोऽयं गुणः-- तेषां सप्तानां निर्योगाणां मध्यात् त्रीन् स शैक्षः 'आत्मार्थयति' आत्मनोऽर्थाय गृह्णातीत्यर्थः; चतुरश्च निर्योगान् 'पूजनार्हाणाम्'
आचार्योपाध्याय-प्रवर्ति-सङ्घाटकसाधूनां प्रयच्छति । तस्य चैवं प्रयच्छतो यद्यसौ निर्योगः शुद्धः 20 ततो ग्रहीतव्यः । अथाशुद्धस्ततः शैक्षस्य दातव्यः । शैक्षस्याभावे 'विवेचनं' परिष्ठापनं तस्य क्रियते ॥४२२४॥ एवं तस्य त्रीन् निर्योगान् गृहीत्वा प्रवजितस्य यद् भवति तद् दर्शयति
सज्झाए पलिमंथो, पडिलेहणियाएँ सो हवइ सिग्गो।।
एगं च देति तहितं, दोण्णि य से अप्पणो हुंति ॥ ४२२५॥ ___ तस्य त्रीन् निर्योगान् उभयकालं प्रत्युपेक्षमाणस्य महान् स्वाध्यायविषयः परिमन्थो भवति । 25 तया च महत्या प्रत्युपेक्षणया सः 'सिग्गः' परिश्रान्तो भवति । तत एवं निर्विण्णः सन् स एकं निर्योग सूरीणां ददाति । प्रदत्ते च तस्मिन् तस्य द्वौ निर्योगावात्मनः सत्तायां भवतः ॥४२२५।। एवमप्यसौ द्वाभ्यां निर्योगाभ्यां शेषसाधुभ्यो अन्यादृश इव दृश्यते ततः
निग्गमणे बहुभंडो, कत्तो कतरो व वाणिओ एइ।
बितियं पि देति तहियं, मा भंते ! दुल्लहं होजा ॥ ४२२६ ॥ 30 मासकल्पे पूर्णे ततः क्षेत्राद् निर्गच्छतां स एवैकः 'बहुभाण्डः' बहूपकरणो दृश्यते ततो लोकस्तमुद्दिश्य ब्रवीति-अहो! कुतः कतरो वा अयं वाणिज एवमुपस्करसम्भारभारितः समुपैति । एवमुपहासमाकर्ण्य स द्वितीयमपि निर्योगं गुरूणां ददाति । तत्र च गुरुभिर्वक्त१ एतदन्तर्गतः पाठः भा० नास्ति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org