________________
११४४
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [त्रिकृत्सप्रकृते सूत्रम् १३ एष चूर्ण्यभिप्रायः । विशेषचूर्ण्यभिप्रायेण तु जघन्यत एक आत्मनो योग्यो नियोगो ग्रहीतव्यः । उत्कर्षतस्तु सप्त नियोगाः. तेषां च त्रय आत्मनो योग्याः चत्वार आचार्यप्रभृतीनां पूजनीयानां पूजायोग्याः । एष द्वारगाथासमासार्थः ॥ ४२१३ ॥ अथैनामेव विवृणोति
कुत्ति पुढवीय सण्णा, जं विजति तत्थ चेदणमचेयं ।
गहणुवभोगे य खमं, न तं तहिं आवणे णस्थि ॥ ४२१४ ॥ __ 'कुः' इति पृथिव्याः संज्ञा, तस्याः त्रिकं कुत्रिकं-वर्ग-मर्त्य-पाताललक्षणं तस्यापणः-हट्टः कुत्रिकापणः । किमुक्तं भवति ? इत्याह-'तत्र' पृथिवीत्रये यत् किमपि चेतनमचेतनं वा द्रव्यं सर्वस्यापि लोकस्य ग्रहणोपभोगक्षम विद्यते तत् 'तत्र' आपणे न नास्ति, "द्वौ नौ प्रकृत्यर्थ
गमयतः" इति वचनाद् अस्त्येवेति भावः ॥ ४२१४ ॥ 10 अथोत्कृष्ट-मध्यम-जघन्यमूल्यस्थानानि प्रतिपादयति
पणतो पागतियाणं, साहस्सो होति इब्भमादीणं । .
उक्कोस सतसहस्सं, उत्तमपुरिसाण उवधी उ ॥ ४२१५ ॥ प्राकृतपुरुषाणां प्रव्रजतामुपधिः कुत्रिकापणसत्कः 'पञ्चकः' पञ्चरूपकमूल्यो भवति । 'इभ्यादीनां' इभ्य-श्रेष्ठि-सार्थवाहादीनां मध्यमपुरुषाणां 'साहस्रः' सहस्रमूल्य उपधिः । 'उत्तमपुरुisषाणां' चक्रवर्ति-माण्डलिकप्रभृतीनामुपधिः शतसहस्रमूल्यो भवति । एतच्च मूल्यमानं जघन्यतो
मन्तव्यम् , उत्कर्षतः पुनस्त्रयाणामप्यनियतम् । अत्र च पञ्चकं जघन्यम् , सहस्रं मध्यमम् , शतसहस्रमुत्कृष्टम् ॥ ४२१५॥ कथं पुनरेकस्यापि रजोहरणादिवस्तुन इत्थं विचित्रं मूल्यं भवति ? इत्युच्यते
विकिंतगं जधा पप्प होइ रयणस्स तन्विहं मुल्लं । 20
कायगमासज्ज तहा, कुत्तियमुल्लस्स णिकं ति ॥ ४२१६ ॥ यथा 'रत्नस्य' मरकत-पद्मरागादेविक्रेतारं 'प्राप्य' प्रतीत्य तद्विधं मूल्यं भवति, यादृशो मुग्धः प्रबुद्धो वा विक्रेता तादृशमेव खल्पं बहु वा मूल्यं भवतीति भावः; एवं 'क्रायक' ग्राहकमासाद्य कुत्रिकापणे भाण्डमूल्यस्य 'निष्कं' परिमाणं भवति, न प्रतिनियतं.किमपीति भावः । इतिशब्दः स्वरूपोपदर्शने ॥ ४२१६ ॥
एवं ता तिविह जणे, मोल्लं इच्छाएँ दिज बहुयं पि ।
सिद्धमिदं लोगम्मि वि, समणस्स वि पंचगं भंडं ॥ ४२१७ ॥ एवं तावत् 'त्रिविधे' प्राकृत-मध्यमोत्तमभेदभिन्ने जने 'मूल्यं' पञ्चकादिरूपकपरिमाणं जघन्यतो मन्तव्यम् । इच्छया तु 'बह्वपि' यथोक्तपरिमाणादधिकमपि प्राकृतादयो दद्युः, न
कोऽप्यत्र प्रतिनियमः । न चैतदत्रैवोच्यते, किन्तु लोकेऽपि 'सिद्धं' प्रतीतमिदम् , यथा30 श्रमणस्यापि 'पञ्चकं' पञ्चरूपकमूल्यं भाण्डं भवति । इह च रूपको यस्मिन् देशे यद् नाणकं व्यवह्रियते तेन प्रमाणेन प्रतिपत्तव्यः ॥४२१७॥ अथ कुत्रिकापणः कथमुत्पद्यते । इत्याह
पुश्वभविगा उ देवा, मणुयाण करिंति पाडिहेराई।। १ कु.सि य पुढवीसण्णा तामा० ॥२ णिको त्ति तामा० ॥
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org