________________
भाष्यगाथाः ४२०५-१३) तृतीय उद्देशः ।
११४३ कृत्वा अकल्पनीयं प्राप्नोति, तच्चानिष्टम् ; ततः 'द्विविधमपि' निर्दिष्टा-ऽनिर्दिष्टभेदाद द्विप्रकारमपि तेन शैक्षेण संछोभकरणेच 'अवगृहीतम्' आत्मीकृतं सत् कल्पते । तथा चात्र 'रलोचयः' मेरुमहीधरः 'ज्ञात' दृष्टान्तः । यथा हि तत्र प्रक्षिप्तं तृणादिकमपि सुवर्णीभवति, एवं शैक्षगृहस्थेन परिगृहीतं सर्वमपि कल्पनीयं भवति ॥ ४२०९ ॥ अपि च
जह उ कडं चरिमाणं, पडिसिद्धं तं हि मज्झिमोग्गहियं ।
पडिवण्णपंचजामे, कप्पति तेसिं तहऽण्णेसिं ॥ ४२१०॥ यथा 'चरमाणां' चरमतीर्थकृत्तीर्थवर्तिनां पञ्चयामिकानां साधूनामर्थाय किमपि वस्त्रं वा पात्रं वा कृतं तच्च तैः 'प्रतिषिद्धं न गृहीतम् , 'मध्यमैश्च' श्रीपार्श्वनाथतीर्थवर्तिसाधुभिश्चतु
र्यामिकैस्तत् प्रतिगृहीतम् । ते च चतुर्यामिकाः पञ्चयामधर्म प्रतिपन्नाः ततस्तद्वस्त्रादिकं तेषामन्येषामपि पञ्चयामिकानां परिभोक्तुं यथा कल्पते, एवमत्रापि साधूनामर्थाय कृतं तैः प्रतिषिद्धं 10 शैक्षगृहस्थेनात्मार्थीकृतं सद् दीयमानं कल्पते ॥ ४२१०॥ अथ संयोगद्वारं व्याख्याति--
उग्गम-विसोधिकोडी, दुगादिसंजोगओ बहू एत्थं । - पत्तेग-मीसिगासु य, णिहिट्ट तथा अणिहिट्ठा ॥ ४२११ ॥ इह उद्गमकोटिभेदाः-आधाकर्म-मिश्रजातादयस्तेषां 'द्विकादिसंयोगतः' द्विकत्रिकचतुष्कादिसंयोगमिष्पन्ना बहवोऽत्र भङ्गका भवन्ति, ते च सुगमतया स्वयमभ्युह्य मन्तव्याः; एवं 15 विशोधिकोटिभेदानामपि-क्रीतकृतादीनां द्विकादिसंयोगनिष्पन्नास्तथैव बहवो भङ्गकाः; एते च प्रत्येकभङ्गका ‘उच्यन्ते । एतेषामेवोद्गमकोटिभेदानां विशोधिकोटिभेदानां च परस्परं द्विकादिसंयोगनिष्पन्ना एवमेव बहवो. भङ्गका भवन्ति, ते च मिश्रभङ्गका भण्यन्ते । सर्वेऽप्येते द्विधा-निर्दिष्टा अनिर्दिष्टाश्च । एतासु प्रत्येक-मिश्रासु भङ्गपतिषु कल्प्या-ऽकल्प्यविभागः प्रागुक्तप्रकारेणावसातव्यः ॥ ४२११ ॥ अथ वक्ष्यमाणार्थसम्बन्धनाय प्रस्तावनां करोति-20
वत्था व पत्ता व घरे वि हुजा, दट्टे पि कुन्जा णिउणो सयं पि । णिजुत्तभंडं व रयोहरादी, कोई किणे कुत्तियआवणातो ॥ ४२१२ ॥ वस्त्राणि वा पात्राणि वा प्रायो गृहेऽपि भवेयुः । यत् तु 'नियुक्तभाण्डं' पात्रनियोंगोपकरणं वाशब्दस्य व्यवहितसम्बन्धतया रजोहरणादिकं वा यदन्यत्र दुर्लभमुपकरणं तत् कश्चिद् 'निपुणः' बुद्धिमान् साधूनां समीपे दृष्ट्वा तदनुसारेण खयमपि कुर्यात्, कश्चित् तु तदेव 25 कुत्रिकापणात् क्रीणीयात् ॥ ४२१२॥ अनेन सम्बन्धेन कुत्रिकापणवक्तव्यतामभिधित्सुराह
___ कुत्तीयपरूवणया, उक्कोस-जहन्न-मज्झिमट्ठाणा ।
कुत्तिय भंडक्किणणा, उक्कोसं हुंति सत्तेव ॥ ४२१३ ॥ प्रथमतः कुत्रिकापणस्य प्ररूपणा कर्तव्या । तत उत्कृष्ट-जघन्य-मध्यमानि मूल्यस्थानानि वक्तव्यानि । एतावता मूल्येन कुत्रिकापणे भाण्डस्य-उपकरणस्य क्रयणं भवतीति निरूपणी-30 यम् । “उक्कोसं" ति उत्कर्षतः सकलस्यापि श्रमणसङ्घस्य योग्या वस्त्र-पात्रप्रत्यवतारा ग्रहीतव्याः । “होंति सत्तेव" ति सप्त नियोगास्तेन ग्रहीतव्या भवन्ति, जघन्यत इति वाक्यशेषः । १°मिकसाधू मो.॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org