________________
भाष्यगाथाः ४१९८-४२०४) तृतीय उद्देशः ।
११४१ कीयम्मि अणिदिवे, तेणोग्गहियम्मि सेसगा कप्पे ।
निट्ठिम्मि ण कप्पति, अहब विसेसो इमो तत्थ ॥ ४२०१॥ क्रीतकृतं द्विधा--निर्दिष्टम् अनिर्दिष्टं च । निर्दिष्टं नाम-वस्त्र-पात्रादिकं क्रीणान इत्थं निर्देश करोति--अमूनि मम भविष्यन्ति अमूनि साधूनां दास्यामि । तद्विपरीतमनिर्दिष्टम् । एवमन्येध्वपि दोषेषु भावना कर्तव्या । तत्र यानि वस्त्राणि तेनानिर्दिष्टानि कीतानि तेषां मध्ये यत् । तस्याभिरुचितं तत्र वनजाते तेनावगृहीते सति शेषाणि साधूनां कल्पन्ते । 'निर्दिष्टे तु' साधूनामर्थाय यत् क्रीतं तत् किमपि न कल्पते । अथवा 'तत्र' निर्दिष्टेऽयं विशेषोऽभिधीयते॥४२०१॥
मज्झंतिगाणि गिण्हह, अहगं तुज्झचए परिग्घिच्छं।
सेहे दिति व वत्थं, तदभावे वा विगिचंति ॥ ४२०२॥ 'मदीयानि' मया आत्मार्थ क्रीतानि वस्त्राणि यूयं गृह्णीथ, अहं तु 'युष्मदीयानि' युष्मदर्थं 10 मयैव क्रीतानि वस्त्राणि परिग्रहीष्ये । एवं तेनोक्ते तान्यात्मार्थकीतानि कल्पन्ते । अथवा स ब्रूयात्-मया तावद् युष्मदर्थमेतानि कीतानि, इत ऊर्ध्वं यद् जानीथ तत् कुरुथ । ततः तद् निर्दिष्टं 'वस्त्रं' वस्त्रप्रत्यवतारं 'शैक्षे' शैक्षस्यानुपस्थापितस्य प्रयच्छन्ति । अथ नास्ति शैक्षः, अस्ति वा परं 'किमहं साधुन भवामि यदेवमेतानि मम दीयन्ते?' इति कृत्वा नेच्छति ततस्तानि “विगिचंति" परिष्ठापयन्ति ॥ ४२०२ ॥ एवं परिष्ठाप्यमानेषु स शैक्षो ब्रूयात्-- 15
एतं पि मा उज्झह देह मज्झं, मैज्झच्चगा गेण्हह एक दो वा।।
अत्तट्ठिए होति कदायि सव्वे, सव्वे वि कप्पंति विसोधि ऐसा ॥ ४२०३ ॥ ___ 'एनमपि' वस्त्रप्रत्यवतारमकल्पनीयतया मा यूयमुज्झत किन्तु मह्यं प्रयच्छत, मदीयप्रत्यवतारात् चैकं द्वौ वा यूयं गृह्णीत । अथ तेन बहवः प्रत्यवताराः क्रीतास्ततः को विधिः ? इत्याह-यान् प्रत्यवतारान् एकं वा द्वौ वा त्रीन् वा स दाता आत्मार्थयति सर्वान् वा कदा-20 चिदात्मार्थ करोति तदा सर्वेऽपि कल्पन्ते । एष विशोधिकोटिविषयो विधिरुक्तः ॥ ४२०३॥ अथाविशोधिकोटिविषयं तमेवाह
उग्गमकोडीए वि हु, संछोभों तहेव होतऽनिदिने ।
इयरम्मि वि संछोभो, जइ सो सेहो सयं भणइ ॥ ४२०४॥ उद्गमकोटिर्नाम-आधाकर्मादयो अविशोधिकोटयो दोषाः तेष्वपि यद् ‘अनिर्दिष्टम्' 'इदं 25 साधूनां दास्यामि इदं मम भविष्यति' इति निर्देशमन्तरेण वस्त्रादि कृतं तत् कल्पते । "संछोभ तहेव होअनिद्दिट्टि" ति अनिर्दिष्टेऽपि यद्यसौ दाता ब्रूयात्-यैर्वस्त्रैयूयं निमत्रिता यदि तानि नेच्छथ तत इमानि मत्परिगृहीतानि गृहीत, यानि युष्माभिः प्रतिषिद्धानि तानि मम भविष्यन्ति । एवमसौ “संछोभं' प्रक्षेपकं कृत्वा यदि ददाति तर्हि सर्वाण्यपि कल्पन्ते । "इतरम्मि वि संछोभो" त्ति इतरद् नाम निर्दिष्टं तत्रापि संछो भो यदि स्यात् ततः कल्पते । 30 संछोभः पुनरयम्— यद्यसौ गृहस्थशैक्षः 'स्वयम्' अन्येनानुपदिष्ट आत्मनैवेत्थं भणति ॥४२०१॥
१मज्झञ्चगाणि तामा० ॥ २ तुझंवर ताभा०॥३ मचगा ताभा०॥४ होज कताभा०॥ ५एस भा० ताटी० ॥ ६°व से अणिद्दि ताभा०॥ ७°लोभमन्तरेण न कल्पते भा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org