________________
सनियुक्ति-लघुभाष्य-वृत्ति के बृहत्कल्पसूत्रे [त्रिकृमप्रकृते सूत्रम् १३ इह कश्चित् तथारूपाणां स्थविराणामन्तिके धर्म श्रुत्वा 'उपशान्तः' प्रतिवुद्धः प्रव्रज्यायां च परिणतः । ततः स आचार्यान् पृच्छति-आदिशत क्षमाश्रमणाः ! किं मया कर्तव्यम् । सूरयस्तस्य सारसम्भवं ज्ञात्वा ब्रुवते-"पूयं" ति चैत्यानां विपुलां पूजां कुरु, श्रमणसङ्घस्य च वस्त्रादिभिः प्रतिलाभनं कुरु । एवमुक्ते स तथैव चैत्यानां श्रमणसङ्घस्य च पूजां करोति । अथ 5 श्रमणसङ्घ न पूजयितुमीशस्तत आचार्यस्योपाध्यायस्य प्रवर्तिनः सङ्घाटकसाधोश्च वस्त्रादिभिः पूजा विधातव्या ॥ ४१९७ ॥ इदमेव भावयति
गंतग-घत-गुल-गोरस, फासुग पडिलाभणं समणसंघे ।
असति गणि-वायगाणं, तदसति सबस्स गच्छस्स ॥ ४१९८॥ स प्रविव्रजिषुः श्रमणसङ्घस्य सकलस्यापि 'प्राशुकैः' शुद्धैर्वस्त्र-घृत-गुड-गोरसादिभिर्द्रव्यैः 10 प्रतिलाभनां करोति । अथ नास्त्येतावत् सारं ततो ये गणिनः-आचार्या ये वा वाचकाः
उपाध्यायास्तेषां सर्वेषामपि करोति । अथ नास्त्येतावती शक्तिस्ततो यस्मिन् गच्छे असौ प्रत्र. जिष्यति तस्य सर्वस्यापि प्रतिलाभनां विधत्ते ॥ ॥ ४१९८ ॥
तदसति पुवुत्ताणं, चउण्ह सीसति य तेसि वावारो।
हाणी जा तिण्णि सयं, तदभावें गुरू उ सव्वं पि ॥ ४१९९ ॥ 15 तस्या अपि-सकलगच्छपूजाक्षमायाः सामग्र्या अभावे ये पूर्वमाचार्योपाध्याय-प्रवर्ति-सङ्घाटकसाधुलक्षणाश्चत्वार उक्तास्तेषां पूजां करोति । 'तेषां च' आचार्यादीनां 'उमपारः' अर्थकथनादिस्तस्य पुरतः 'शिष्यते' कथ्यते, यथा--आचार्योऽथ व्याख्यानयति, उपाध्यायः सूत्रं वाचयति, प्रवर्ती तपः-संयमादौ प्रवृत्तिं कारयति, सङ्घाटकसाधुर्भिक्षा-विचारभूम्यादौ गच्छतां
साहाय्यं विधत्ते, अत एतेषां पूजां विधेहीति । अथ नास्त्येतावती शक्तिस्ततो यथाक्रमं हान्या 40 प्रथममाचार्योपाध्याय-प्रवर्तिनाम् , तदभावे आचार्योपाध्याययोः, तथाप्यशक्तौ केवलस्यैवाचा
र्यस्य पूजां करोति । एवमप्यशक्तौ स्वयमात्मनो योग्यान् त्रीन् प्रत्यवतारान् , तदभावे द्वौ, द्वयोरभावे एकमपि प्रत्यवतारमादाय प्रव्रजति । अथ नास्ति तस्यैकोऽपि प्रत्यवतारस्ततः सर्वमपि पात्रनिर्योगादिकं तस्य गुरवः प्रयच्छन्ति ॥ ४१९९ ॥
अथास्य विद्यमानविसवस्योद्गमकोटिदोषैर्विशोधिकोटिदोषैर्वा अविशुद्धानि वस्त्राणि प्रयच्छतो 28 ग्रहीतुं कल्पन्ते न वा ? इति चिन्तां चिकीर्षुराह
__ अप्पणों कीतकडं वा, आहाकम्मं व घेत्तु आगमणं ।
संजोए चेव तधा, अणिदिवे मग्गणा होति ॥ ४२०० ॥ स गृहस्थशैक्ष आत्मनो योग्यं वस्त्र-पात्रादि क्रीतकृतं वा आधाकर्म वा गृहीत्वा गुरूणामन्तिके दीक्षाग्रहणायागमनं कुर्यात् । अत्र क्रीतकृतग्रहणेन विशोधिकोटिदोषा गृहीताः, 30 आधाकर्मग्रहणेन चाविशोधिकोटिदोषा गृहीताः । अमीषां च दोषाणामनिर्दिष्टे उपलक्षणत्वाद् निर्दिष्टे च ये संयोगाः-भङ्गकास्तेषां मार्गणा कर्तव्या भवतीति द्वारगाथासमासार्थः ॥४२००॥
साम्प्रतमेनामेव विवृणोति१नास्ते ताव का• मो. ले. विना ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org