________________
भाष्यगाथाः ४१९०-९७] तृतीय उद्देशः ।
११३९ पव्वजाभिमुहंतर, गुज्झ ग उम्भामिया वासो ॥ ४१९३ ॥ बितियणिसाए पुच्छा, एत्थ जती आसि तेण मि न आतो।
जतिवेसोऽयं चोरो, जो अज तुहं वसति दौरे ॥ ४१९४ ॥ "पव्वज्जा" इत्यादि । एकः कश्चित् तरुणः प्रव्रज्याभिमुखो गुरूणां पार्थे प्रस्थितः । अन्तरा च कस्मिंश्चिद् ग्रामे एकस्या वरतरुण्या गृहे वासार्थमुपगम्य द्वारमूले सुप्तः । सा च तरुणी । 'उन्द्रामिका' कुशीला । 'गुह्यकश्च' कश्चिद् यक्षः तया उद्भामिकया सह रात्री वासं कृत्वा प्रभाते खस्थानं गच्छति । एवं दिवसे दिवसे करोति । तस्मिंश्च दिवसे स यक्षो नोपागमत् । द्वितीये च दिवसे कोऽपि सलिङ्गावधावी चौर्य कर्तुकामस्तस्मिन्नेव ग्रामे तस्या एव तरुण्या गृहे तथैव द्वारमूले प्रसुप्तः, यक्षश्च तदिवसमागतः । यस्मिन् दिवसे यक्षो नायातः ततो यो द्वितीयो दिवसस्तत्र निशायामागतस्य यक्षस्य पार्श्वे पृच्छा कृता-कल्ये किं नागतोऽसि ! 110 यक्षः प्राह-अत्र कल्ये यतिरासीत् तेन कारणेन अहमत्र नायातः, अपि च साधुसम्बन्धिना तेजसैव तमुल्लङ्य गन्तुं ने शक्यते । सा प्राह-किमेवं मृषा भाषसे? अयमपि तावदन्यः साधुज्रमूले सुप्तस्तिष्ठति अत एनमुल्लचय कथमद्यागतोऽसि ? इति । यक्षः प्राह-एष चारित्रं प्रति विपरिणतश्चौर्य कर्तुकामः, अतो यतिवेषेण चौरोऽयं मन्तव्यः यस्तव अद्य द्वारे वसतीति ॥
तदेवमनेन दृष्टान्तेन प्रव्रज्यायामभिमुखः प्रवजित एवोच्यते । स उक्तं च नैश्चयिकनय-15 वक्तव्यतामङ्गीकृत्य भगवत्याम्
नेरईए णं भंते ! नेरईएए उववज्जइ ? अनेरईए नेरईएसु उववज्जइ ? गोयमा ! नेरईए नेरईएसु उववजइ, नो अनेरईए नेरईएसु उववजह (श० ४ उ० ९ । प्रज्ञा० पद १७ उ० ३)।- ॥ ४१९३ ॥ ४१९४ ॥ अथ रजोहरणादिपदानि व्याचष्टे
30 रयहरणेण विमझो, गुच्छगगहणे जहण्णगहणं तु ।
भवति पडिग्गहगहणे, गहणं उक्कोसउवधिस्स ॥ ४१९५ ॥ रजोहरणग्रहणेन विमध्यमोपधिर्गृहीतः, गोच्छकग्रहणेन जघन्योपधिग्रहणं भवति, प्रतिग्रहग्रहणेन चोत्कृष्टस्योपधेर्ग्रहणं मन्तव्यम् ॥ ४१९५ ॥ पडिपुण्णा पडुकारा, कसिणग्गहणेण अप्पणो तिणि ।
25 पुद्धि उवद्वितो पुण, जो पुव्वं दिक्खितो आसी ॥ ४१९६ ॥ कृल्लवस्त्रग्रहणेनेदमुक्तं भवति-तेन प्रव्रजता आत्मनो योग्यास्त्रयः प्रत्यवताराः प्रतिपूर्णा ग्रहीतव्याः । पूर्वमुपस्थितः पुनः स उच्यते यः पूर्व दीक्षित आसीत् ।। ४१९६ ॥ एष सूत्रार्थः । अथ नियुक्तिविस्तरःसोऊण कोइ धम्म, उवसंतो परिणओ य पव्वजं ।
- 30 पुच्छति पूर्य आयरिय उवज्झाए, पवत्ति संघाडए चेक ।। ४१९७॥ १ बारे ताभा० ॥ २ न कल्पते त. ३० ॥ ३॥ एतदन्तर्गतः पा3: भार नाति । चूर्णी विशेषचूर्णी पुनरयं पाठ उपलभ्यते ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org