________________
5
११३८
सनिर्युक्ति-लघुभाष्य-वृत्तिके बृहत्करूपसूत्रे [ त्रिकृत्स्त्र प्रकृते सूत्रम् १३
अथ विस्तरार्थोऽभिधीयते - आह— न तावदद्याप्ययं प्रत्रजितः ततः कथं निर्ग्रन्थों भवति ? इति उच्यते
ततितो उ उभयसहितो, उभओविजढे चरिम भंगो ।। ४१९१ ।।
द्रव्ये च भावे च प्रव्रजित इत्यत्र चतुर्भङ्गी भवति । तद्यथा - द्रव्यतो निर्ग्रन्थो न भावतः १ भावतो निर्ग्रन्थो न द्रव्यतः २ एको द्रव्यतोऽपि भावतोऽपि ३ अपरो न द्रव्यतो न भावतः ४ । तत्र द्रव्यतो निर्ग्रन्थः स उच्यते यः 'लिङ्गसहितः ' द्रव्यलिङ्गयुक्तो निःशङ्कः सन् 10 ' अवधावति' उत्पव्रजतीत्यर्थः ॥ ४१९० ॥
25
दव्वम्मि य भावम्मि य, पव्वइए एत्थ होति चउभंगो ।
दव्वेण लिंगसहितो, ओहावति जो उ णीसंको ॥ ४१९० ।।
पवजाऍ अभिमुो, परलिंगे कारणेण वा बितिओ ।
यस्तु प्रव्रज्यायामभिमुखो न तावदद्यापि प्रत्रजति कारणेन वा यः साधुः परलिङ्गे वर्तते सः 'द्वितीयः' द्वितीयभङ्गवर्ती । यस्तु 'उभयसहितः ' द्रव्य-भावलिङ्गयुक्तः सः 'तृतीयः' उभयथाऽपि निर्ग्रन्थ इति भावः । ‘उभयविमुक्ते तु ' द्रव्य-भावलिङ्गरहिते गृहस्थादौ 'चरमः' चतुर्थो भो भवति ॥ ४१९१॥ अत्राचार्यो देवस्य मानुष्या सह संवासलक्षणं दृष्टान्तं कर्तुकामः 15 प्रथमतः सिद्धान्तं प्रज्ञापयति
चउधा खलु संवासो, देवाऽसुर रक्खसे मणुस्से य ।
अण्णोष्णकामणेण य, संजोगा सोलस हवंति ॥ ४१९२ ।।
देवसंवासः असुरसंवासो राक्षससंवासो मनुजसंवासश्चेति संवासश्चतुर्धा । अत्र चान्योन्यकाम्यया षोडश संयोगा भवन्ति, तद्यथा— देवो देव्या सार्धं संवसति १ देवो असुर्या सार्धम् 20. २. देवो मनुष्या सार्धम् ३ देवो राक्षस्या सार्धम् ४, असुरो देव्या समं संवसति ५ असुरो - सुर्या ६ असुरो मनुष्या ७ असुरो राक्षस्या ८, राक्षसो देव्या ९ राक्षसोऽसुर्या १० राक्षसो मनुष्या ११ राक्षसो राक्षस्या १२, मनुष्यो देव्या १३ मनुष्योऽसुर्या १४ मनुष्यो राक्षस्या १५ मनुष्यो मनुष्या १६ चेति । अत्र देवशब्देन वैमानिको ज्योतिष्को वा, असुरशब्देन भवनवासी, राक्षसशब्देन तु सामान्यतो व्यन्तरः परिगृह्यते ॥ ४१९२ ॥
अथामूनेव षोडश भङ्गान् चतुर्षु भङ्गेष्ववतारयन्नाह
अधवण देव छवीणं, संवासे एत्थ होति चउभंगो ।
" अहवण" त्ति प्रकारान्तरद्योतकः । देव-च्छविमतोः संवासे चतुर्भङ्गी भवति - देवो देव्या सार्धं संवसति १ देवः छविमत्या सार्धम् २ छविमान् देव्या सार्धम् ३ छविमान् छविमत्या ४ । अत्र देवशब्देन सामान्यतो भवनपत्यादिनिकायचतुष्टयाभ्यन्तरवर्ती गृह्यते, ३० छविमांश्च मनुष्य उच्यते । अत एतेषु चतुर्षु भङ्गेषु पूर्वोक्ताः षोडशापि भङ्गा अन्तर्भूताः ॥ एवं सिद्धान्तं प्रज्ञाप्य प्रस्तुतार्थसाधकं दृष्टान्तमाह
१. 1. Do एतदन्तर्गतः पाठः भा० नास्ति ॥ २ अण्णण कां० ॥ ३ चान्यान्य भा० कां० मो० ० ॥ ४ कामनया ताटी० भा० को ० ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org