________________
भाष्यगाथाः ४१८३-८९] तृतीय उद्देशः ।
११३७ क्षन्त इति भावः, वाक् च तेषां मुखलति, ज्ञाते च तदभिप्राये तेषां दैन्यं मुखवैवर्ण्य चोपजायते, न च तेषां वस्त्रं ददानानाम् 'अनुरागः' हृष्टप्रहृष्टतालक्षणो भवति ।। ४१८८ ॥
॥निश्रामकृतं समाप्तम् ॥
.
त्रि कृ स्त्र प्रकृतम् सूत्रम्
निग्गंथस्स तप्पढमयाए संपव्वयमाणस्स कप्पड़ रयहरण-गोच्छ-पडिग्गहमायाए तिहिं कसिणेहिं वत्थेहिं आयाए संपव्वइत्तए । से अ पुत्वोवहिए सिया एवं से नो कप्पइ रयहरण-पडिग्गह-गोच्छयमायाए तिहि य कसिणेहिं वत्थेहिं आयाए संपव्वइ. त्तए । कप्पइ से अहापरिग्गहियाइं वत्थाई गहाय
आयाए संपव्वइत्तए १३॥ अथास्य सूत्रस्य कः सम्बन्धः? इत्याह
णिग्गंथिचेलगहणं, भणियं समणाणिदाणि वोच्छामि । निक्खंते वा वुत्तं, निक्खममाणे इमं सुत्तं ॥ ४१८९ ॥
15 निर्ग्रन्थीविषयं चेलग्रहणं भणितम् , इदानीं श्रमणानां यथा वस्त्रं ग्रहीतुं कल्पते तथाऽभिधीयते । यद्वा 'निष्क्रान्तः' दीक्षितस्तद्विषयं वस्त्रग्रहणमुक्तम् , इदं तु 'निष्कामति' दीक्षामाददाने वस्त्रग्रहणाभिधायकं सूत्रमारभ्यते ॥ ४१८९ ॥
अनेन सम्बन्धेनायातस्यास्य व्याख्या-निर्ग्रन्थस्य तत्प्रथमतया सम्-इति सम्यक् प्रकर्षणपुनरनङ्गीकारलक्षणेन व्रजतः-गृहवासाद् निर्गच्छतः सम्प्रव्रजतः कल्पते रजोहरण-गोच्छक-प्रति-20 ग्रहमादाय त्रिभिः कृत्स्नैर्वस्त्रैरात्मना सम्प्रव्रजितुम् । इह रजोहरणग्रहणेन मध्यमोपधिः गोच्छकग्रहणेन जघन्योपधिः प्रतिग्रहग्रहणेनोत्कृष्टोपधिः सर्वो गृहीतः, ततोऽयमर्थः-जघन्य-मध्यमोस्कृष्टोपधिनिष्पन्ना ये त्रयः कृत्लाः-प्रतिपूर्णा वस्त्र-पात्रप्रत्यवतारास्सैरात्मना सहितैः प्रव्रज्या ग्रहीतुं कल्पते । “से य" ति चशब्दो अथशब्दार्थः, अथासौ प्रव्रज्याप्रतिपत्ता पूर्वम् उपस्थितःदीक्षितः स्यात् ततो नो कल्पते "से" तस्य पूर्वोपस्थितस्य रजोहरण-गोच्छक प्रतिग्रहमादाय 25 त्रिमिः कृत्वैर्वस्त्रैरात्मना सम्प्रव्रजितुम् ; किन्तु कल्पते "से" तस्य 'यथापरिगृहीतानि' क्रीतकृता. दिदोषरहितानि वस्त्राणि गृहीत्वा आत्मना सम्प्रव्रजितुम् इति सूत्रेसङ्केपार्थः ।।
१°ण जाव संपवात्तए । कप्प° भा० ॥ २ गहिपहिं वत्थेहिं आयाए इति मा० । एत. पाठमेदानुसारेणैव मा. प्रती टीका वर्तते, दृश्यता टिप्पणी ४ ॥३°ग्रन्थ्याः चेल भा•॥४°हीत: क्रीतकृतादिदोषरहितैः वः मारम भा० ॥ ५°समासाः ताटी• भा• कां•॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org