________________
5
भाष्यगाथाः ४१७२-८२ ]. तृतीय उद्देशः ।
११३५ आयरिऍ उवज्झाए, पवत्ति थेरे गणी गणधरे य ।।
गणवच्छेइयणीसा, पवित्तिणी तत्थ आणेति ॥ ४१७७॥ आचार्यस्याभावे उपाध्यायस्य प्रवर्तिनः स्थविरस्य गणिनो गणधरस्य गणावच्छेदिनो वा निश्रया वस्त्रग्रहणं कर्तव्यम् । एतेषामभावे प्रवर्तिनी 'तत्र' गृहस्थकुले गत्वा स्वयमानयति ॥ ४१७७ ॥ इदमेव व्याख्यानयति
आयरिए असधीणे, साहीणे वा वि वाउल गिलाणे ।
एकेकगपरिहाणी, एमादीकारणेहिं तु ।। ४१७८ ॥ यदि तत्राचार्यों अस्वाधीनः स्वाधीनो वा परं 'व्याकुलः' कुलादिकार्येषु व्यापृतः ग्लानो वा तत उपाध्यायनिश्रया ग्रहणं विधेयम् । तत्रापि स एव विधिः । अथोपाध्यायोऽखाधीनो व्याकुलो वा, तत एकैकंपरिहाण्या तावद् नेयं यावत् प्रवर्तिनीनिश्रयाऽपि ग्रहीतव्यम् । एवमा-10 दिभिः कारणैः संयतीनां वस्त्रग्रहणं भवतीति ॥ ४१७८ ॥
सुत्तणिवातो थेरी, गहणं तु पवत्तिणीय नीसाए ।
तरुणीण य अग्गहणं, पवत्तिणी तत्थ आणेति ॥ ४१७९ ॥ अत्र पुनः सूत्रनिपात इत्थं मन्तव्यः-(ग्रन्थानम्-२७४२०) आचार्यादीनां गणावच्छेदिकान्तानामभावे प्रवर्तिन्या निश्रया स्थविरा आर्यिकाः वयं वस्त्रग्रहणं कुर्वन्ति । तरु-18 णीनां तु सर्वथैव वस्त्रस्याग्रहणमुत्सर्गतः, प्रवर्तिनी स्वयं तत्र गत्वा आनयति ॥ ४१७९ ॥ इदमेव भावयति
साहू जया तत्थ न होज कोई, छंदेज णीया तरुणी जया य ।
पवत्तिणी गंतु सयं तु गेण्हे, आसंकभीया तरुणी न नेति ॥ ४१८० ॥ यदा तत्राचार्यादीनां मध्यात् कोऽपि गीतार्थः साधुन भवति, यदा च 'निजकाः' संज्ञात- 20 कास्तरुणीः 'छन्दयेयुः' निमन्त्रयेरन् तदा प्रवर्तिनी स्वयं तत्र गत्वा गृह्णाति । 'आशङ्काभीता च' प्रत्यपायशङ्कया चकिता तरुणीरात्मना सार्धं न नयति ॥ ४१८० ॥
असती पवत्तिणीए, आयरियादि व्य जं व णीसाए ।
आगाढकारणम्मि उ, गिहिणीसाए वसंतीणं ॥ ४१८१ ॥ अथ नास्ति प्रवर्तिनी तत आचार्योपाध्यायादीन् 'यं वा' सामान्यसाधुमपि 'निश्राय' निश्रां 25 कृत्वा विहरति तन्निश्रया ग्रहणं कर्तव्यम् । आगाढे तु कारणे गृहिनिश्रया वसन्तीनां स्वयमपि ग्रहणं भवतीति वाक्यशेषः ॥ ४१८१ ॥ इदमेव सविशेषमाह
___ असती पवत्तिणीए, अभिसेगादी विवजए णीसा।
गेण्हंति थेरिया पुण, दुगमादी दोण्ह वी असती ॥ ४१८२ ॥ प्रवर्तिन्या अभावे अभिषेका-गणावच्छेदिनीप्रभृतयो या गीतार्थाः संयत्यस्ताः वयं गत्वा 30 गृह्णन्ति । "विवजए नीस" त्ति विपर्ययो नाम-अभिषेकादयोऽपि न सन्ति ततः परस्परनिश्रया स्थविरा आर्यिका गृह्णन्ति । ताश्च 'द्विकादयः'. द्वि-त्रिप्रभृतिसङ्ख्याकाः पर्यटन्ति । अथ
१ इतोऽग्रे ग्रन्थानम्-१२००० इति ताटी । प्रन्यामम् .. ३००० इति मो० ले ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org