SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ ११३४ सनिर्युक्ति-लघुभाष्य-वृत्तिके बृहत्करूपसूत्रे [ निश्राप्रकृते सूत्रम् १२ गुरावागते संयत्यो भणन्ति - निष्काशयत तानि वस्त्राणि यैर्वयं निमन्त्रिताः । एवमुक्ते यदि तान्येव दर्शयन्ति ततो गृह्णन्ति ॥ ४१७१ ॥ अथान्यानि ततः सूरिभिरिदं वक्तव्यम्अन्नं इदं ति पुट्ठा, भांति किह तुब्भ तारिसं देमो । इति भद्दे पंतेसु तु, धुणंति सीसं ण तं एतं ॥ ४१७२ ॥ 10 5 येन भवद्भिः संयत्यो निमन्त्रिता नेदं तद् वस्त्रम् किन्तु प्रमाणेन वर्णेन वा अन्यादृशत्वेनान्यदिदमिति पृष्टाः सन्तस्ते गृहस्था यदि भद्रकास्तत इदं भणन्ति — कथं वयं युष्माकं स्वयमेवागतानां 'तादृशं' सामान्यवर्णादियुक्तं प्रयच्छामः ? इदं तु ततो विशिष्टतर वर्णादिगुणोपेतम्, अत इदं गृह्णीत - इति भद्रका ब्रूयुः । ये तु प्रान्तास्तेषु सूरयः शीर्षं धूनयन्ति, इदं च वचनं ब्रुवते - येन संयत्यो निमन्त्रितास्तदिदं वस्त्रं न भवति ॥ ४१७२ ॥ एवमुक्ते ते चिन्तयेयुः - P बहु जाणिया ण सक्का, वंचेउं तेसि जाणिउं भावं । च्छंति भद्दसु तु, पट्टभावेसु गेण्हति ।। ४९७३ ॥ अये ! अमीभिराचार्यैः 'बहु' प्रभूतं 'ज्ञाताः ' उपलक्षिता वयम् - यदेते आभियोगिका नि वस्त्राणि प्रयच्छन्तीति, अतो न शक्या अमी वञ्चयितुम् इत्यादिकं तेषां 'भावम्' अभिप्रायं 15 मुखविकारादिभिराकारैर्ज्ञात्वा नेच्छन्ति । भद्रकेषु तु प्रहृष्टभावेषु गृह्णन्ति ॥ ४१७३ ॥ भद्रकेष्वेव विशेषमुपदर्शयति न वि एयं तं वत्थं, जं तं अजाण णीणियं भेत्ति । तुमें इमं पडिच्छध, तं चिय एताण दाहामो ॥ ४१७४ ॥ तत्तद्वत् तद् आर्यिकाणामर्थाय निष्काशितं भवद्भिः; इत्युक्ते यदि गृहस्था 20 ब्रुर्वते - यूयं तावदिदं वस्त्रं प्रतीच्छत, एतासां तु वयं तदेव दास्यामः ॥ ४१७४ ॥ ततो वक्तव्यम् - अणेण णे ण कजं, एतट्ठा चैव गेण्हिमो अम्हे | जाणिव इतिवृत्ते, गीर्णेति दुए वि गिण्हंति ॥ ४१७५ ।। अन्येन वस्त्रेण "णे" अस्माकं न कार्यम्, एतासामेवार्थाय वयं सम्प्रति गृह्णीमः; इत्युक्ते 25 यदि 'तान्यपि ' प्राक्तनानि वस्त्राणि आनयन्ति ततः 'द्वयान्यपि' प्राक्तन - पश्चात्तनानि गृह्णन्ति ॥ ४१७५ ॥ ताणि वि उवस्यम्मि, सत्त दिणे ठविय कप्प काऊ । थेरा परिच्छिऊणं, विहिणा अप्पेंति तेणेव ।। ४१७६ ॥ तान्यपि वस्त्राणि गृहीत्वा उपाश्रये आनीय सप्त दिनानि स्थापयित्वा कल्पं कृत्वा स्थविर - 30 प्रावरणद्वारेण परीक्ष्य यदि नास्ति कोऽप्यभियोगविकारस्ततः ' स्थविरा:' आचार्यास्तेनैव विधिना संयतीनामर्पयन्ति ॥ ४१७६ ॥ एवमाचार्यनिश्रया ग्रहणमुक्तम् । अथोपाध्यायादिनिश्रया तदेवाह एतदन्तर्गतः पाठः भा० नास्ति ॥ २° वन्ति यू' ताटी० त०] डे० ॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.002513
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages444
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy